________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२६२
चरक संहिता | ज्वरस्यामाशयसमुत्थत्वात् । ततः कषायपानाभ्यङ्गस्नेहस्वेदप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनोपशमनन स्तःकर्मधूपधूमपानाञ्जन-क्षीरभोजनविधानञ्च यथास्वं युक्ता प्रयोज्यम् ॥ २१ ॥
जीर्णज्वरेषु तु सर्वेष्वेव सर्पिषः पानं प्रशस्यते यथास्वोषसिद्धस्य । सर्पिर्हि स्नेहाद वातं शमयति संस्कारात्
-
Acharya Shri Kailassagarsuri Gyanmandir
ज्वरनिदानम्
रसाल्पतया दुष्टदोषे लघ्वशनं साधितं पेयादिकं रसाधिक्ये दुष्टे तु दोषेऽपतर्पणमनशनम् । कस्मादित्यत आह- आमाशयशमुत्थत्वादिति । आमाशयसमुत्थानं हि वह्निदूषणमन्तरेण न भवतीत्यतो वह्निदीपनं लघ्वशनानशनयोविधियुक्तः । सम्यग्लङ्घिते च लध्वशनं यथास्वौषधसिद्धपेयादिकमिति वाशब्दव्यवस्थया व्यवस्था खप्रापिता । ततस्तरुणत्वानन्तरं मध्यज्वरादौ सम्यगलङ्घितपीतपेयादिके कषायपानादिकविधानं यथास्वं यस्मिन् ज्वरे यस्यामवस्थायां यदुपयुक्तं तत् युक्तया दोपबल-पुरुषबल- देशकालानुसारेण प्रयोज्य मित्यर्थः ॥ २१ ॥
गङ्गाधरः -- जीर्णज्वरेष्विति । पुराणज्वरे दशाहादूर्द्ध सम्यग्लङ्घितक्षयितक फे सव्वेष्वेव ज्वरेषु न तु न्यूनकफव्यतिरिक्तेषु । न्यूनकफजीर्णज्वरेषु कफावजयः कथं भवति किमु सर्पिषोऽसिद्धस्य पानमित्यत आह-यथास्वोषधेत्यादि । यथास्वोषसिद्धले न्यूनकफहरत्वं दर्शयति- सर्पिहत्यादि । हेतु दर्शयित्वा
For Private and Personal Use Only
लङ्घनत्वात्; किंवा यत्र वातादिज्वरे लङ्घनं न कर्त्तव्यम्, तत्र लध्वशनं बोद्धव्यम्, अपतर्पण लङ्घनमेव ; अथ किमिति वातिकेऽपि वातकारकं लध्बशनमपतर्पणं वा कार्य्यमित्याह - आमाशयसमुत्थत्वादित्यादि । आमाशयसमुत्थत्वेन वातोऽपि मनाक लङ्घनीयः स्थानापेक्षया भवतीति भावः वचनं हि - " जयेद्वि पूर्व स्थानस्य विरुद्वच" इति ॥ २१ ॥
;
चक्रपाणिः -- यथास्त्रौषधसिद्धस्येति वातादिज्वरे वातज्वरादिहरद्वव्यसिद्धस्य । कथं सर्पिः सर्व्वत्र कार्यमित्याह - सर्पिर्हि स्नेहादित्यादि । संस्कारात् कफमिति कटुतिक्तादिकफहरसंस्कारात् ; यद्यपि च यथास्वौषधसिद्धस्येति वचनात् वातेऽपि वातहरसंस्कृतमेव सर्पिर्विहितम्, तथापि वा रुक्षविपरीतेन स्नेहेनापि सर्पिवतिहरमेव, पित्तेऽपि उष्णविपरीतशैत्यान्वितम्, कफे तु सर्पिषा स्नेहशैत्यादिना समानेन कश्चिन्न स्वाभाविको विरोधिगुणोऽस्ति, किन्तु संस्कारात् हितमेव दर्शयति ; उष्माणचेति ज्वरप्रभावभूतमुष्माणम्, न पित्तोष्माणम्, तस्य पित्तग्रहणेनैव