SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः निदानस्थानम् । १२६१ शब्दरभिधीयते। सर्वप्राणभतश्च सज्वरा एव जायन्ते सज्वरा एव ब्रियन्ते। स महामोहः। तेनाभिभूताः प्राग्दैहिक देहिनः किश्चिदपि न स्मरन्ति, सर्वप्राणिनाञ्च ज्वर एवान्ते प्राणानादत्ते ॥ २०॥ तत्र पूर्वरूपदर्शने ज्वरादौ वा हितं लघ्वशनमपतर्पणं वा बहुविधैः शब्दः पालकेश्वरादिशब्दरभिधीयते। तदुक्तं पालकाप्येन-पालकः' स तु नागानामभितापस्तु वाजिनाम्। गवामीश्वरसंक्षस्तु मानवानां ज्वरो मतः। अजावीनां प्रलापाख्यः करमे चालसो भवेत्। हारिद्रो महिषाणान्तु मृगरोगो मृगेषु च। पक्षिणामभिघातस्तु मत्स्येष्विन्द्रमदो मतः। पक्षाघातः पतङ्गानां व्याडेप्याक्षिकसंशकः । इत्यादि। अन्यत्र च जलस्य नीलिका भूमेरूषरः वृक्षस्य कोटर इत्यादि। प्रभावान्तरमाह-सवेत्यादि । सर्वप्राणभृत इति सचे प्राणिनः। स महामोह इति । लोके यो महामायाकार्य्यतया मोहो दृश्यते स ज्वर एव । तं दर्शयति-तेनेत्यादि । तेन ज्वरेण। जन्ममात्र ज्वरेण प्रागदैहिक पूर्वजन्मभवम् । ज्वर एवान्ते मरणकाले सर्वप्राणिनां प्राणानादत्ते न यमादिः । ज्वरादत्तप्राणान् हि पुरुषान् यमादिरादत्त ॥२०॥ __गङ्गाधरः-लिङ्गोपदेशव्याजेनोपशयमुक्त्वा निर्देशसूत्रेण पुनर्व्याकरोतितत्रेत्यादि। तत्र ज्वरे पूर्वरूपदशेने प्रागुत्पत्तेः ज्वरादौ उत्पन्नमात्रनवज्वरे रोगाधिपतिरिव रोगाधिपतिः ; नानाविधैः शब्दैरिति हस्तिषु पाकलो गोषु खेरिको मत्स्यानामिन्द्रजालो विहङ्गानां भ्रामरक इत्यादिशब्दैः; सर्चप्राणभृतः सज्वरा एव जायन्ते सज्वरा एव नियन्ते ; तत् किमिति तेषां जन्मनि मरणे वा सन्तापात्मा ज्वरो न लक्ष्यत इत्याह-स महामोह इति, जन्ममरणयोर्महामोहरूपो ज्वरो भवति, न सन्तापात्मेत्यर्थः; अत एवोक्तम्- "ज्वरप्रभावो जन्मादौ निधने च महत् तमः” इति ; जन्मनि महामोहतामाह-तेनेत्यादि। प्रागदैहिक जन्मान्तरकृतम्। ननु शुद्धसत्त्वानुगमात् प्रागदैहिकं स्मरणं युक्तम् ; वचनं हि-“यदा तेनैव सत्त्वन मनसा युज्यते, तदा जातिमतिक्रान्तामपि स्मरति' इति ; न, तस्य शुद्धमनःसत्वानुवृत्तेरपवादस्वादेतत् परित्यज्यान्यत्र ज्वरस्य प्रागदैहिकविस्मारकत्वं ज्ञयम्। मरणे महा. मोहतामाह-सर्वप्राणभृतामित्यादि। ज्वर एव महामोह एवेति भावः ; तेन नियमाणाः सर्वे महामोहं प्रविशन्तीत्यर्थः ॥ २० ॥ चक्रपाणिः-सम्प्रति सूत्रितं चिकित्सासूत्रमाह-तत्रेत्यादि। यद्यपि चिकित्सिते ज्वरादौ लङ्कनं वक्ष्यति, तथापीह पाक्षिकलध्वशनविधानं न विरोधि, लघ्वशनस्यापि लाघवकत्तृत्वेनैव For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy