________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६० चरक-संहिता।
ज्वरनिदानम् देहेन्द्रियमनस्तापकरः, प्रज्ञाबलवर्णहर्षोत्साहहासकरः, श्रमक्लममोहाहारोपरोधसंजननः, ज्वरयति शरीराणीति ज्वरः । नान्ये व्याधयस्तथा दारुणा बहुपद्रवा दुश्चिकित्स्याश्च यथायम् । स सर्वरोगाधिपति नातिय॑गयोनिषु च बहुविधैः विप्रकृष्ट कारणवं ख्यापितं, ज्वरो यदि महेश्वरकोपान्नाभविष्यत् तदाधुनाप्यप. चारादिना नोदपत्स्यत। कोपप्रभवलेन ज्वरस्य च तजसलं महेश्वरस्य कोपोद्भवखेन देवतात्मकलञ्च ख्यापितम्। तैजसवख्यापनेन सर्वज्वरे पित्ताविरोधेन क्रिया युक्ता देवतात्मकवेन पूजाहखश्च युक्तम् । अत एव-उष्मा पित्ताहते नास्ति ज्वरो नास्त्युष्मणा विना। तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकमित्युक्तम् । विदेहे च ज्वरस्तु पूजनैर्वापि सहसैवोपशाम्यति इत्यादि। ज्वरस्त्रिपादस्त्रिशिराः षड़ भुजो नवलोचनः। भस्मप्रहरणो रौद्रः कालान्तकयमोपम इति हरिवंशे मूर्तिमानुक्त इति । सर्वप्राणिनां स्थावरवृक्षादीनां जङ्गममनुष्यपशुपक्ष्यादीनाश्च । देहेन्द्रियमनस्तापकर इति देहादितापलक्षणं चिकित्सिते दर्शयिष्यते। आहारस्योपरोधो निरोधः प्रतिबन्ध्यवम् । ज्वरयतीति निरुक्तापदर्शनेन ज्वरशब्दस्य रुगजनकलेन सर्वव्याधिबोधकवेऽपि ईदृशो यो ज्वरयति चेदृशवेदनया स ज्वर इति योगरूढ़िग्रत्त्या सन्तापलक्षणनिरुक्तस्यास्य रोगस्य वाचक इति ख्यापितः। अस्य सर्वव्याधिप्राधान्यमाह-नान्ये इत्यादि। यथायं निरुक्तप्रभावो ज्वरो दारुणो बहूपद्रवो दुश्चिकित्स्यश्च तथा नान्ये रक्तपित्तादयो व्याधयो दारुणा बहूपद्रवा दुश्चि कित्स्याश्च । सुतरामयं ज्वरः सर्वरोगाधिपतिः। न केवलमुक्तप्रभावात् सव्वरोगाधिपतिः प्रभावान्तरेणापि तदाह-नानेत्यादि। नाना सपंगजादिषु । मास्थितम्” इत्यादिग्रन्थे वक्ष्यमाणां ज्वरोत्पत्तिमाह। क्रोधभवत्वेन च श्लेष्मजन्यस्याप्याग्नेयत्वं दर्शयति ; क्रोधो ह्यग्निरूपः, तेन तन्मयोऽपि ज्वरस्तथैव ; अत एवोक्तम्-“उष्मा पित्ताइते नास्ति ज्वरो नात्स्युष्मणा विना। तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम् ॥" न च रुद्रकोपभवत्वेन लोभाभिद्रोहप्रभवत्वं ज्वरस्य विरुध्यते ; यतः, रुद्रकोपो त एव ज्वरो लोभाभिद्रोहस्वरूपपापाचारप्राप्त्या पुरा मनुष्येषु भूतः ; सर्वप्राणिनां ज्वर एव प्राणहर इति, मरणकाले सर्वप्राणिनां ज्वर एव प्राणहर इति दर्शयति । देहेन्द्रियमनस्तापकर इत्यत्र प्रत्येक तापलक्षणं ज्वरचिकित्सिते बोद्रव्यं "वैचित्तयमरति निर्मनःसन्तापलक्षणम्” इत्यादिना ; ज्वस्यति सन्तापयति । 'इति'शब्दो हेतौ ; तेन यस्मादक्तमहेश्वरक्रोधप्रभवत्वादियुक्तः, तस्मात् सर्व
For Private and Personal Use Only