________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पमः अध्यायः
निदानस्थानम्।
१२५६ .. इत्येतान्यकैकशश्च ज्वरलिङ्गानि व्याख्यातानि भवन्ति विस्तरसमासाभ्याम् ॥ १६ ॥
ज्वरस्तु खलु महेश्वरकोपप्रभवः सर्वप्राणिनां प्राणहरः, सन्तापाभिव्यक्ती तु किमेतान्यनुवर्तन्ते न वा इत्यत आह-अपि चैनमित्यादि । एतानि ज्वरपूर्वरूपाणि एनं ज्वरपूर्वरूपिणं पुरुष सन्तापात जायमानसन्तापं जातसन्तापमपि अनुबध्नन्ति च यथादोषवलं कृत्स्नशोऽकृत्स्नशो वा। अनुबन्धवचनेन व्यक्तसन्तापवे वातात्मकादिज्वरलक्षणविषमारम्भविसर्गिखाद्यपेक्षया खप्राधान्येनेषामनुत्तिः मूचिता भवति । उत्पन्नज्वरस्य तु तानि लिङ्गानि भाषन्ते कुशलाः ॥१८ ॥
गङ्गाधरः-उपसंहरति—इत्येतानीत्यादि। एकैकशः प्रत्येकशः ! चकारात् सामान्यतश्च । ज्वरलिङ्गानि ज्वरस्य रूपाणि पूर्वरूपाणि च । किंवा निदानादीनि पश्च, लिङ्गाते ज्ञायते यैस्तानि लिङ्गानीति व्युत्पत्तेः । अनुपशयोपशयाभ्यां वृद्धिहासवचनेन पुनरुपशयस्य व्याख्यातखान्न पञ्चानां व्याख्यानन्यूनता। विस्तरसमासाभ्यामिति एकैकशो निदानादीनां व्याख्यानं विस्तरेण बोध्यं सन्तापलक्षणं पूर्वरूपाणि च समासेन व्याख्यातानीति बोध्यम् ॥१९॥ · गङ्गाधरः-ननु पूर्वमुक्तं लोभातिद्रोहकोपप्रभवानष्टौ व्याधीन् निदानपूर्वेण क्रमेण व्याख्यास्याम इति, ततस्तु खल्वयं ज्वरो लोभप्रभवो वातिद्रोह - प्रभवो वा कोपप्रभवो वेत्यत आह-ज्वरस्वित्यादि । महेश्वरः शिवस्तस्य कोपात् प्रभव आद्योत्पत्तिर्यस्य स तथा। महेश्वरकोपात् प्रभवप्रकारस्तु चिकित्सास्थाने विस्तरेण दर्शयिष्यते। महेश्वरकोपोद्भवलदर्शनेन महेश्वरकोपस्य ज्वरं प्रति रूपाणामतिमात्रानुवर्त्तनं रिष्टमुक्तम् ; वचनं हि-“पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। यं विशन्ति विशत्येनं मृत्युज़रपुर सरः॥” इति ; किंवा अस्य श्लोकस्यान्य एवार्थः, तमिन्द्रिये वक्ष्यामः। न चारुच्यादीनां व्यक्तज्वरभावित्वेन पूर्वरूपत्वं हन्यते ; यतः लिङ्गान्तरयुक्तानि अरुच्यादीनि लिङ्गानि भवन्ति ; लिङ्गान्तरविरहितानि तु पूर्वरूपाणि। एकैकशो ज्वरलिङ्गानीत्यत्र 'लिङ्ग शब्देन निदानपूव्वरूपादीन्युच्यन्ते ; विस्तरसमासाभ्यामिति विस्तरेण वातादिज्वरा उक्ताः, समासेन संसर्गसन्निपातजाः, यस्त्वत्र समासेनोक्तः, स चिकित्सिते प्रपञ्चनीय इति भावः ॥14१९॥
चक्रपाणिः-सम्प्रति ज्वरस्य महाप्रभावतां दर्शयितुं पूर्वोत्पत्तिप्रकारान्तरचाह-ज्वरस्तु इत्यादि। 'महेश्वरकोपप्रभवः' इति, ज्वरचिकित्सिते 'द्वितीये हि युगे शर्बमक्रोधव्रत
For Private and Personal Use Only