________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५८ चरक-संहिता।
। ज्वरनिदानम् गुरुगात्रत्वमनन्नाभिलाषश्चक्षुषोराकुलत्वमश्रागमनं निद्राधिक्यम् अरतिः जम्भा विनामो वेपथुः श्रमभ्रमप्रलापजागरणरोमहर्षदन्तहर्षाः शब्दशीतवातातपसहत्वासहत्वमरोचकाविपाको दौर्बल्यमङ्गमईः सदनमल्पप्राणता दीर्घसूत्रतालस्यमुचितस्य कर्मणो हानिः प्रतीपता स्वकार्येषु गुरूणां वाक्येष्वभ्यसूया बालेभ्यः प्रद्वषः स्वधर्मोप्वचिन्ता माल्यानुलेपनभोजनक्लेशनं मधुरेभ्यश्च भक्ष्येभ्यः प्रद्वषः उष्णाम्ललवणकटप्रियता* चेति ज्वरस्य पूर्वरूपाणि भवन्ति प्राक सन्तापात्, अपि चैनं सन्तापातमनुबध्नन्ति ॥ १८॥ भवन्ति-तद्यथेत्यादि। मुखवरस्य मुखस्य विरुद्धरसतम्, चक्षुषोराकुळखमश्रागमनम्। अरतिरनवस्थितचित्तसमक्रीडवं वा, जृम्भा जम्भणम् । तच्च सर्वेष्वेव ज्वरेषु भाग्रपतया भवति, वाताधिक्ये खत्यर्थ भवति । उक्तश्चान्यत्र-सामान्यतो विशेषात् तु जम्भात्यर्थ समीरणादिति । विनामो नतशिरस्वम् । श्रमोऽनायासश्रमः श्रान्तवमिव मन्यते। शब्दादीनां सहसासहवमनियतेछाद्वेषौ । अरोचक इह सत्यप्यभिलाषेऽन्नाभ्यवहारासामथोमतोऽनन्नाभिलाषा भेदः । अङ्गम:ऽङ्गवेदना। सदनमवसन्नता। अल्पप्राणता स्वल्पबलखम् । दीर्घसूत्रता कर्मण्युपस्थित चिरकत्वम् । आलस्यं कर्मस्वनुत्साहः। हानिरकत्त खेन त्यागः । स्वकार्येषु प्रतीपता विरोधाचरणम् । असूया गुणेषु दोषारोपस्तेन गुरूणां खस्मिन्ननुकूलवाक्येषु दोषारोपः। स्वयम्र्मेषु नित्यक्रियासन्ध्यावन्दनादिषु अचिन्ता मनसोप्रवृत्तिः। इतीति एतानि। प्राक् सन्तापादिति शरीरादिषु सन्तापाभिव्यक्तः पूर्वमेतानि ज्वरस्य पूर्वरूपाणि भवन्तीति। अतोऽनन्तरं अत्राप्यनन्नाभिलाषारोचकयोः पूर्ववद भेदः ; दौर्बल्यं ज्ञरीरमात्रबलहानिः ; अल्पप्राणता च मानसबलहानिर्बोद्रव्या ; किंवा दौर्बल्यं मांसापचयः ; . दीर्घसूत्रता चिरेण कार्यकर्तृत्वम् । स्वरपूर्वरूपाणि भवन्ति प्राक सन्तापादिति च्छेदः, ज्वरपूर्वरूपसन्तापात् प्रागेतानि पूर्वरूपाणि भवन्तीत्यर्थः ; आप च सन्तापातमनुबध्नन्तीत्यनेन प्रव्यक्तऽपि ज्वरे कानिचित् पूर्वरूपाणि मुखवैरस्यारुच्यादीनि भवन्तीति ; न चैवं पूर्वरूपानुवृत्ते रिश्त्वं वाच्यम्, यतः सर्वपूर्ब* उष्णाम्ललवणकटुप्रियतेत्यत्र अम्ललवणकटुप्रियता इति पाठश्चक्रभृतः ।
For Private and Personal Use Only