________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
शारीरस्थानम् ।
२०३६
च पार्श्वकानि । तावन्ति चैषां स्थालिकान्यर्बुदाकाराणि तानि द्विसप्ततिः । द्वौ शङ्खौ चत्वारि शिरःकपालानि । वक्षसि सप्तदशेति त्रीणि षष्टाधिकानि शतान्यस्थनामिति ॥ ५ ॥
bo
स्थीनि पार्श्वकानि तान्येकैकस्मिन् पार्श्वे द्वादश द्वादशेति चतुब्विंशतिः । तावन्ति चैषां स्थालिकानि पृष्ठे खबुदाकाराणि द्वादश द्वादशेति चतुर्व्विशतिस्तानि मिलित्वा द्विसप्ततिः ।
वक्षसि सप्तदशेति । पूर्व्वं द्वे जत्रुणीत्युक्तम् इत्येकाधिकनवतिर्मध्यदेहे । द्वौ शङ्खौ चखारि शिरःकपालानीति ग्रीवां प्रत्यूर्द्ध पड़ व्याख्यातानीति मिलिखा षष्ट्यधिकानि त्रीणि शतान्यास्थनां भवन्ति । तत्र शल्यतन्त्रेषु दन्तोलूखलानि द्वात्रिंशद विंशतिर्नखा जत्रणि हन्वस्थि चैकमिति पष्टिः पृथङ नोच्यन्ते । दन्तग्रहणेन दन्तोलखलानां ग्रहणात् नखानां वाह्यत्वात् जत्रुणि द्वयोर्वक्षसोऽस्थिग्रहणेन ग्रहणात् हन्वस्थ्नश्च यौवने पृथकत्वाभावाद् द्वित्वमिति न विरोधः ।
सुश्रुते चोक्तम् | त्रीणि सपष्टान्यस्थिशतानि वेदवादिनो भाषन्ते । भवन्ति चात्र । स्थालैः सह चतुःषष्टिदेशना विंशतिर्नखाः । पाणिपादशलाकाच तासां स्थानचतुष्टयम् । षष्टाङ्गुलीनां द्वे पाणयोः कूर्चाधो मणिगुल्फयोः । चत्वार्यरत्नप्रोस्थीनि जङ्घायां तद्वदेव च । द्वे द्वे जानुकूर्परोरु-फलकांससमुद्भवे । अक्षे तालपके श्रोणी-फलके चैवमादिशेत् । भगास्थ्येक त्रिके पायौ पृष्ठे त्रिंशच पञ्च च । ग्रीवा पञ्चदशास्थिः स्यात् जन्येकैकं तथा हनोः । तन्मूले दो ललाटाक्ष - गण्डे नासाधनास्थिका । पार्श्वकस्थालिकैः सार्द्धमन्बुदानि fatafaः । at aant कपालानि चलायेव शिरस्यथ । उरः पञ्चदशास्थि स्यात् पुरुषस्यास्थिसंग्रहः । इति । एतदेवाग्नेयपुराणे याज्ञवल्क्यसंहितायाञ्च स्मृतावुक्तमिति ।
तथा पुनः सुश्रुते - शल्यतन्त्रे तु त्रीण्येव शतानि । तेषामष्टोत्तरशतं शाखासु । पड़ विंशत्युत्तरशतं श्रोणिपार्श्वपृष्ठाक्षोरःसु । ग्रीवां प्रत्युद्ध पपष्टः । एवमस्थनां त्रीणि शतानि पूर्यन्ते । एकैकस्यान्तु पादाङ्गल्यां त्रीणि त्रीणि तानि पञ्चदश । तलकूच्चे गुल्फ संश्रितानि सप्त । पावकम् | जङ्घायां
| जानुन्येकमेकमूरी, इति सप्तविंशतिरेकस्मिन् सनि भवन्ति । एतेन भास्थि अभिमुखं कटीसन्धानकारकं तिर्य्यगस्थि । स्थालकानीति पर्शुकानां मूलस्थानलग्नानि ।
For Private and Personal Use Only