________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३८
चरक-संहिता। शरीरसंख्यानाम शारीरम् कूर्परयोद्धे ऊोद बाह्वोः सांसयोः, द्वावक्षको द्वे तालुनि, द्व श्रोणीफलके, एकं भगास्थि पुंसां मेढ़ास्थि, एक त्रिकसंश्रितमेकं गुदास्थि, पृष्ठगतानि पञ्चत्रिंशत्, पञ्चदशास्थीनि ग्रीवायाम्। द्वे जत्रुण्येकं हन्वस्थि, द्वे हनुमूलबन्धने, द्वे ललाटे, द्वे अक्षणोद्धे गण्डयो सिकायां त्रीणि घोणाख्यानि, द्वयोः पार्श्वयोश्चतुविंशतिश्चतुर्विंशतिः पञ्जरास्थीनि अस्थीनि । हस्तयोः प्रकोष्ठे खेकैकस्मिन् द्वे द्वे अस्थिनी, ततश्चवारि द्वयोरिति। एवं चखारि जङ्घयोरस्थीनि गुल्फाधस्ताजानुपर्य्यन्ते। द्वे जानुनोरिति पृथुगुटिकाकारे। एवमेव कूपरयोद्धे अस्थिनी। प्रकोष्ठवाहोः सन्धौ क्षुद्रगुडिकाकारे द्वे । द्वे ऊचारित्येककस्मिन् ऊरावेकैकमिति द्व। एवमेव सांसयो हो, एकैकस्मिन् बाहावेकैकमिति द्वे। इत्येवं चतसृषु पाणिपादरूपासु शाखासु खल्वेकैकस्यां शाखायां नवैः सह द्वात्रिंशदस्थीनि ; चतसृषु तान्यष्टाविंशत्युत्तरं शतं भवन्ति। शल्यतन्त्रेषु सुश्रुतादिषु नखानुक्तलादेकैकस्यां शाखायां सप्तविंशतिस्तान्यष्टोत्तरशतमुक्तानि। इति दन्तोलूखलदन्तसहितानि तान्यष्टाविंशत्युत्तरशतास्थीनि द्विनवत्यधिकशतं भवन्ति ।
द्वावक्षकावित्यादि। अत्र द्विवप्रसङ्गाद् द्वे तालुनीत्युक्तम् । तालुगतद्वयवर्जमक्षकादिषु खल्वक्षश्रोणिभगमेढत्रिकगुदपृष्ठेषु द्वाचवारिंशत् । तद् यथा - द्वावक्षको कण्ठादयोऽसको द्वे । द्वे श्रोणीफलके इति नितम्बे द्वे । स्त्रीणामेकं भगास्थि पुंसां मेढास्थि । त्रिकसंश्रितमेकं गुदे चैकम्। इति पञ्च श्रोण्याम्, अक्षको द्वाविति सप्त। पृष्ठगतानि पञ्चविंशदिति द्वाचवारिंशत् । __ अथ ग्रीवां प्रत्यूद्ध सप्तत्रिंशदिति । तद् यथा-द्वे तालुनीत्युक्तम् । पञ्चदश ग्रीवाया मिति ; तेषामेकादश ग्रीवायां कण्ठनाड्यां चखारि। द्वे जत्रणि । नेमे शल्यतन्त्रे वर्णिते, हन्वस्थि चैकं न वर्णितमिति । द्वे हनुमूलबन्धने। द्वे ललाटे। वे अक्ष्णोर्दै गण्डयोः नासिकायां त्रीणीति घनरूपमेकवत् । इति वक्ष्यति शिरःकपालानि चलारि द्वौ शङ्खकाविति जत्रुगतद्वयवज्ज पश्चत्रिंशद् ग्रीवां प्रत्युद्ध म्।
अथ मध्यदेहे-द्वयोः पार्श्वयोरित्यादि। द्वयोः पार्श्वयोरेकैकस्मिन् पाकमूले वक्षसि लग्नानि द्वादश द्वादश । इति चतुविंशतिः । चतुविंशतिः पञ्जराष्ठानम्। जानु जङ्घोवोः सन्धिः। अक्षाविवाक्षको, जत्रुसन्धेः कीलकौ । तालुष के ताल्वस्थिनी।
For Private and Personal Use Only