________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०३७ त्रीणि षष्टाधिकानि शतान्यस्थनां सह दन्तोलूखलनखैः ; तद् यथा-द्वात्रिंशद् दन्तोलूखलानि, द्वात्रिंशदन्ताः, विंशतिर्नखाः, विंशतिः पाणिपादशलाकाः । षष्टिरङ्गाल्यस्थीनि । द्वे पाण्र्योटे कूळधश्चत्वारः पाण्योर्मणिकाः, चत्वारः पादयोगेल्फाः। चत्वार्य्यरत्नयोरस्थीनि चत्वारि जङ्घयोः द्वे जानुनोद्वे
गङ्गाधरः-त्रीणीत्यादि। दन्तनखैः सहास्थ्नां षष्ट्यधिकानि त्रीणि शतानि नृणामिति। ननु शल्यतन्त्रे त्रीणि शतान्यस्थ्नामित्युक्तं कथमिह षष्टाधिकानीत्यत आह-सहेत्यादि। शल्यतन्त्रे सुश्रुतेऽप्युक्तम्। त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते, शल्यतन्त्रेषु त्रीण्येव शतानि । इति । शल्यतन्त्रेष येषामस्थ्नां विशेषेण शस्त्रक्रिया चिकित्सिते नास्ति तानि पष्टयस्थीनि नोपदिश्यन्ते, न तु सन्तीति कृता नोपदिश्यन्ते। तानि च पष्टिरस्थनामेषा-दन्तोलूखलेन जत्रस्थीनि षष्टिस्तैः सह त्रीणि शतानि भवन्त्यस्थ्नामिति । तानि विकृणोतिद्वात्रिंशदित्यादि । दन्तानां द्वात्रिंशत् एकैकस्यैकैकमुलूखलाकृतिस्थितिस्थानमिति। द्वात्रिंशदेव दन्तोलूखलानि शल्यतन्त्रे नोक्तानि। द्वात्रिंशद दन्तास्तूक्तास्तद्ग्रहणैर्न तान्यपि गृह्यन्ते । विंशतिनेखा इति शल्यतन्त्रे नोक्तम् । विंशतिः पाणिपादशलाका इति। द्वयोः पाण्योः पादयोश्च द्वयोस्तलेष चतुर्यु स्थानेष्वङ्गलिविंशतः मूलेषु स्थिताः विंशतिः शलाकाः। षष्टिरङ्गल्यस्थीनि । पाणिपादचतुष्टये विंशतेरङ्गुलीनाम् एकैकस्यामगुल्यां त्रीणि त्रीण्यस्थीनि तान्येकैकस्मिन् पाणिपादे पञ्चदश, चतुर्यु षष्टिः । द्वे अस्थिनी पायोः। पादयोमू ले शलाकाभ्योऽधस्तादेकैकमिति छ । द्वे कूर्चाध इति पाण्योः शलाकाभ्योऽधस्तात् तच्छलाकावन्धे एकैकमिति, द्वयोः पाण्योमू ले द्वे अस्थिनी पाास्थिवत् । ततोऽधस्ताचलारः पाण्योमणिका मणिबन्धस्थाने त्वेककस्मिन् पाणी व अस्थिनी; द्वयोश्चखारि । एवमेव पादयोश्चवारो गुल्फा इति । ततोऽधस्ताचखारि अरनयोः
चकपाणिः-सपटानीति पष्टयधिकानि। दन्तेषूलखलम्, यत्राश्रिता दन्ताः। यद्यपि नखा विविधाशितपीतीये मलभागपोष्यत्वेन मले एव प्रक्षिप्ताः, तथापीहास्थितारूप. योगस्यापि विद्यमानत्वाद् अस्थिगगनायां पतिताः। प्रत्यङ्गुलि पर्वत्रयम्। तेन विंशत्यङ्गुलि. गतम् अस्थनां विंशतित्रयं भवति। वृद्धाङ्गुष्ठे यद्धस्तपादप्रविष्टम्, तत् तृतीयं पर्व ज्ञेयम् । वृद्धाङ्गुष्ठशलाका अपि स्वल्पमाना ज्ञेयाः, अङ्गुलीनां शलाका यत्र लग्नाः, तत्र शलाका अङ्गुष्टाधि.
For Private and Personal Use Only