________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३६
चरक-संहिता। शरीरसंख्यानाम शारीरम् तत्रायं शरीरस्याङ्गविभागः-तद् यथा-द्वौ बाहू द्वे सकथिनी शिरोग्रीवमन्तराधिरिति षडङ्गमङ्गम् ॥ ४ ॥
प्लीह्रोश्च भवति। भवति चात्र। वृक्षाद् यथाभिप्रहतात् क्षीरिणः क्षीरमावहेत् । मांसादेवं क्षतात् क्षिप्रं शोणितं सम्पसिच्यते। तृतीया मेदोधरा नाम, मेदो हि सव्र्वभूतानामुदरस्थमण्वस्थिषु, महत्सु च मज्जा भवति । भवति चात्र । स्थूलास्थिपु विशेषेण मज्जा सभ्यन्तराश्रितः। अथेतरेषु सर्वेषु सरक्त मेद उच्यते। शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता। चतुर्थी श्लेष्मधरा नाम सर्वसन्धिषु प्राणभृतां भवति। भवति चात्र। स्नेहाभ्यक्ते यथा बक्षे चक्र साधु प्रवत्तेते। सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा। पश्चमी पुरीषधरा नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्काशयस्था। भवति चात्र । यकृत् समन्तात् कोष्ठश्च तथात्राणि समाश्रिता। उण्डकस्थं विभजते मलं मलधरा कला। षष्ठी पित्तधरा नाम, या चतुर्विधमन्नपानमुपयुक्तम् आमाशयात् प्रच्युतं पकाशयोपरिस्थितं धारयति । भवति चात्र । अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम्। तज्जीया॑ति यथाकालं शोषितं पित्ततेजसा। सप्तमी शुक्रधरा नाम, या सव्वप्राणिनां सर्वशरीरव्यापिनी। भवन्ति चात्र । यथा पयसि सर्पिस्तु यथा चेक्षुरसे गुड़ः। शरीरेषु तथा शुक्रं नृणां विद्याद भिषग्वरः। द्वनङ्गुले दक्षिणे पार्वे वस्तिद्वारस्य चाप्यधः। मूत्रस्रोतःपथाच्छकं पुरुषस्य प्रवत्तेते। कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा। स्त्रीषु व्यायच्छतश्चापि हर्षात् तत् सम्प्रवत्तते ॥” इति ॥३॥
गङ्गाधरः-अथ किं पड़झं शरीरमित्यत आह-तत्रायमित्यादि। द्वौ बाहू इति द्वे अङ्गे। द्वे सक्थिनी इति द्वे अङ्गे। शिरोग्रीवमित्येकमङ्गम् । शिरश्च ग्रीवा चेति तयोः समाहार इत्येकवद्भावात्। अन्तराधिरित्येकमङ्गम् ; अन्तमध्यमादधातीति व्युत्पत्त्या मध्यदेह इत्यर्थः । इति षडङ्गमङ्गं शरीरम् । सुश्रतेऽप्युक्तम् शरीरसयाव्याकरणशारीरे-तच्च पड़ङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर इति। अत्र शिर इति ग्रीवापर्यन्तं शिरःसंशम् ॥४॥
चक्रपाणिः-पड़ङ्गतामुक्तां शरीरस्य विभजते-तत्रायमित्यादि। शिरश्च ग्रीवा च शिरोग्रोवम्, एतच्चैक्यं विवक्षया शेयम् ; अन्तराधिर्मध्यम् ॥ ४ ॥
For Private and Personal Use Only