________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम्।
२०३५ पञ्चमी अलजीविद्रधीसम्भवाधिष्ठाना। षष्ठी तु सा यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति, याश्चाप्यधिष्ठायारूषि जायन्ते पर्वसन्धिषु सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्रयतमानि च। इति षट् त्वचः। एताः षड़ॉ शरीरमवतत्य तिष्ठन्ति ॥३॥ कुष्ठानां सम्भवस्य दोपस्याधिष्ठानं यस्यां सा तथा। सुश्रुते तु पञ्चमीयमुक्ता। तद् यथा-पञ्चमी वेदिनी नाम व्रीहिपश्चमभागप्रमाणा कुष्ठविसर्याधिष्ठाना। इति । पञ्चमीत्यलजीविद्रधीति प्राधान्यादुक्तम् । सुश्रुते हि रोहिणीनाम्नीयं पष्ठी वक् । तद् यथा-षष्ठी रोहिणी नाम ब्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठानेति। षष्ठीत्यादि। यस्यां खचि च्छिन्नायां ताम्यति पुरुषः। कीदृशं ताम्यतीति तद् वितृणोति --अन्ध इवेत्यादि । तत्र कस्याधिष्ठानमित्यत आह-याञ्चेत्यादि । अरू पीति । व्रणा या अरू षिका शोथरूपा व्रणाः। कुत्र कीदृशानीत्यत आह-पर्चेत्यादि। सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्य तमानीत्यरू पीत्यस्य त्रीणि विशेषणानि । इत्येताः पट वचः षड़ॉ शरीरमवतत्य व्याप्य तिष्ठन्तीति। उपलक्षणमेतत् तेन तन्त्रान्तरोक्तं शेषमपि बोध्यम् । तद यथा-सुश्रुते-सप्तमी मांसधरा नाम ब्रीहिद्वयप्रमाणा भगन्दरविद्ध्योऽधिष्ठाना। यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटे सूक्ष्माङ्गुल्यादिषु च। यतो वक्ष्यत्युदरेषु त्रीहिमुखेणाङ्गुष्टोदरप्रमाणमवगाद विध्येदिति । कलाः खल्वपि सप्त सम्भवन्ति धाखाशयान्तरमय्यांदाः। भवतश्चात्र । यथा हि सारः काष्ठेषु च्छिद्यमानेषु दृश्यते। तथा धातुहि मांसेषु च्छिद्यमानेषु दृश्यते। स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा। श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः। आसां प्रथमा मांसधरा नाम, यस्यां मांस सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति । भवति चात्र । यथा विसमृणालानि विवद्धन्ते समन्ततः। भूमी पकोदकस्थानि तथा मांसे सिरादयः। द्वितीया रक्तधरा नाम। मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिरासु यकृत्सम्भवाधिष्ठानेति सिध्मकिलासौ यतो दोषात् सम्भवतः, तस्य दोषस्याधिष्ठानभूता। एवमुत्तरत्रापि व्याख्येयम् । ताम्यतीत्यस्य विवरणम् – 'अन्ध इव तमः प्रविशति' इति। किंवा ताम्यतीति तमोयुक्तभावश्चेष्टते। अरू पीति व्रणानि। पर्चस्विति अवयवसन्धिषु ॥३॥
For Private and Personal Use Only