________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३४
चरक-संहिता। शरीरसंख्यानाम शारीरम् तमुवाच भगवानात्रेयः । शृणु मत्तोऽग्निवेश ! शरीरं सर्वमभिसंचक्षाणस्य यथाप्रश्नमेकमनाः । यथावत् शरीरे षट् त्वचः; तद्यथा-उदकधरा वग वाह्या, द्वितीया त्वस्टग्धरा, तृतीया सिध्मकिलाससम्भवाधिष्ठाना च, चतुर्थी कुष्ठसम्भवाधिष्ठाना,
गङ्गाधरः-तमुवाचेत्यादि। अभिसंचक्षाणस्य व्याख्यानं कुर्वतो मम । यथावदित्यादि। पट खचस्ता विकृणोति-तद् यथेत्यादि। ननु सुश्रुतेन गर्भव्याकरणशारीरे तूक्तम् ---अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः। तस्य खल्वेवं प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त खचो भवन्ति। तासां प्रथमाऽवभासिनी नाम, या सर्ववर्णानवभासयति पञ्चविधाञ्च च्छायां प्रकाशयति। सा वीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठानति। तन्त्रे खस्मिन्नियं वाह्या खगुदकधरेति नान्नाभिहिता। द्वितीया त्वमृगधरेति। सुश्रुतेनापि तत्रैवोक्तं द्वितीया लोहिता नाम व्रीहेः पोडशभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठानेति। तृतीया सिमकिलाससम्भवाधिष्ठाना चेति। अत्र सुश्रुतः प्रोवाच तृतीया श्वेता नाम बीहेादशभागप्रमाणा चर्मदलाजगल्लीमशकाधिष्ठाना। चतुर्थी ताम्रा नाम बीहेरष्टमभागप्रमाणा विविधकिलासकुष्ठाधिष्ठानेति द्वे खचे प्रोवाच । तत्रेऽस्मिन् ते द्वे त्वेकत्वेन स्वीकृत्य तृतीया खगुक्ता, तेनास्मिंस्तन्त्रे या चतुर्थी सा सुश्रुते पञ्चमी, अस्मिन पञ्चमी या सुश्रुते सा पष्ठी, अस्मिन् पष्ठी सुश्रुते सप्तमीति न विरोधः । तथा च तृतीया या सा तूपरिदशे श्वेता, तत्र सिध्मचम्मदलाजगल्वीमशकाधिष्ठानम्। अधस्तात् तु ताम्रा किलासाख्यकुष्ठाधिष्ठाना एतयोः प्राधान्यात् सम्भवस्य कारणस्य दोषादरधिष्ठानभूता इत्यर्थः। चतुर्थीति।
चक्रपाणिः-आचक्षाणस्येत्यत्र 'मतम्' इति शेषः। तेन सर्व शरीरमाचक्षाणस्य मे मत्तः शृष्विति योजना। ततश्च 'नटस्य शृणोति' इतिवदनुपयोगे षष्ठी शृण्वित्यनेन। मतान्तरमप्यस्ति शरीरावयवसंख्यान इति सूचयति। ततश्च सुश्रुते--- "सप्त त्वचस्त्रीण्यस्थनां शतानि" इत्यादिना यद्धि प्रतिपादितं संख्याविरुद्ध मुच्यते, तच्छल्यशास्त्रोपयुक्तमतभेदादिति दर्शयति । यदुक्तम् सुश्रुते"त्रीणि सषष्टानि शतान्यस्थ्नां वेदविदो भाषन्ते। शल्यतन्त्रे तु त्रीण्येव शतानि", अनेन वचनेन योऽन्योऽपि त्वगादिसंख्याभेदश्चरकसुश्रुतयोः स्वतन्त्रोपयुक्त संख्योपादानाच्चोन्नेयः। सिमकिलाम
For Private and Personal Use Only