________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः।
अथातः शरीरसंख्यानाम शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ शरीरसंख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसंख्यानप्रमाणज्ञानहेतोभगवन्तमात्रेयमग्निवेशः पप्रच्छ ॥ २ ॥
__ गङ्गाधरः-अथ शरीरविचयः शरीरोपकारार्थमिष्यते इति यदुक्तं, तत्रोक्ताध्यायोक्तशरीरविचयानन्तरं शरीरविचयपरिशेष व्याकत्तुं शरीरसङ्ख्यानाम शारीरमारभते—अथात इत्यादि। शरीरस्य सङ्ख्या सङ्ख्याया शानमनेनेति शरीरसङ्ख्या, सा विद्यतेऽस्मिन्नध्याये मवर्थीयप्रत्ययः। पूर्ववच्छन्दसीति मवर्थे च्छन्दःप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावश्च विधाय शरीरसङ्के प्रति निष्पाद्यते। शरीरसया नाम यस्य तत् तथा। सर्व पूर्ववत् ॥१॥
गङ्गाधरः-शरीरेत्यादि। अग्निवेशो भगवन्तमात्रेयं सर्वशरीराणां सङ्ख्यानस्य सवाया ज्ञानस्य प्रमाणं साधनं तस्य ज्ञानहेतोः शरीरमवयवशः प्रविभज्य शरीरसङ्ख्या पप्रच्छेति योजना ॥२॥
चक्रपाणिः-पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसंख्याभेदेन प्रतिपादयितु शरीरसंख्या उच्यन्ते, अवयवसंख्यानप्रमाणभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् साधनं चिकित्सोपयुक्तं करिष्यतीति अध्यायान्ते 'शरीरसंख्यां यो वेद' इत्यादि। अवयवशः शरीरं विभज्य शरीरसंख्यां पप्रच्छेति योजना। पृच्छाप्रयोजनमाह-सर्वशरीरसंख्यानप्रमाणज्ञानहेतोरिति। संख्यानस्य प्रमाणमियत्ता संख्यानप्रमाणम्, तच् 'षड़ द्वादश' इत्यादिग्रन्थवाच्यम्। किंवा संख्यानञ्च प्रमाणञ्च संख्यानप्रमाणम् । अत्र 'षट् स्वचः' इत्यादि संख्यानम्, 'दशोदकाञ्जलयः' इत्यादि शरीरावयवप्रमाणम् । किंवा संख्यानामप्रमाणज्ञानहेतोरिति पाठः । तत्र संख्यानप्रमाणस्य दत्तमेवोदाहरणम्, नामज्ञानन्तु 'एकजिटिका' इत्यादिग्रन्थे भवतीति व्याख्यानयन्ति ॥१२॥
२५५
For Private and Personal Use Only