________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३२
चरक-संहिता। [ शरीरविचयशारी) परिणामकरा भावा या च तेषां पृथक क्रिया। मलाख्याः संप्रसादाख्या धातवः प्रश्न एव च ॥ नक्को निर्णयश्चास्य विधिवत् सम्प्रकाशितः। तथ्यः शरीरविचये शारीरे परमर्षिणा ॥ २० ॥ इग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत शारीरस्थाने शरीर
विचयशारीरं नाम षष्ठोऽध्यायः॥ ६ ॥ तस्मान्मांसमाप्याय्यते मांसेनेत्यादिना एपामस्य धातूनां क्षीणानां यदौषधं वृद्धिकरम् । कात्रन्येनेत्यादिना ये देहद्धिकरा भावाः। बलद्धिकरास्विमे इत्यादिना ये च बलद्धिकरा भावाः। आहारेत्यादिना परिणामकरा ये भावाः। तत् खल्वेषामित्यादिना तेषां परिणामकराणामुष्मादीनां या या क्रिया पृथक् प्रत्येकम् । शरीरधातवस्त्वेवं द्विविधा तु इत्यादिना मलाख्या धातवः । इतरांस्वित्यादिना प्रसादाख्या धातवः। तमेवमुक्तयन्तमित्यादिना नवक एव च प्रश्नः। पुनश्च तमेवमुक्तवन्तमित्यादिनास्य नवकस्य प्रश्नस्य यथावत् यथार्थ निर्णयश्च तथ्यश्च। परमर्षिणा पुनर्वसुना संप्रकाशितः ॥२०॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ शारीरस्थानजल्पे
चतुर्थस्कन्धे शरीरविचयशारीरजल्पाख्या षष्ठी शाखा ॥६॥
मांसादीनां संग्रहोऽयमिति वदन्ति। ‘वृद्धिहासौ यथा तेषाम्' इत्यनेन धातवः पुनः' इत्यादि. ग्रन्थार्थं गृह्णाति । 'क्षीणानामौषधं यत्' इति मांसगाप्यायते मांसेन' इत्यादि संगृह्णाति । 'या च तेषां पृथक क्रिया' इत्यनेन तेषामाहारपरिणामकराणामुष्मप्रभृतीनां पृथक्कर्मणाम् । यदुक्तम्-'तद् यथा- उप्मा पचति' इत्यादिना, तद् गृह्यते ॥ २०॥
इति महामहोपाध्याय चरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक
तात्पर्यटीकायां शारीरस्थाने शरीरविच यशारीरं नाम षष्ठोऽध्यायः ॥ ६॥
For Private and Personal Use Only