________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
शारीरस्थानम्।
तत्र श्लोकाः। शरोरं यद् यथा तच्च वर्तत क्लिष्टमामयः। यथा क्लेशं विनाशं वा याति ये चास्य धातवः॥ वृद्धिहासो तथा चैषां क्षीणानामौषधश्च यत् ।
देहवृद्धिकरा भाषा बलवृद्धिकराश्च ये॥ न वस्तुतः। इति सप्तमप्रश्नोत्तरम्। अथ किश्चास्य परमायुः परिमाणत उत्कृष्टमायुरिति स तत्प्रश्नोत्तरमाह-वर्षशतं खल्वायुषः प्रमाणमिति । नियतकालप्रमाणमायुरनियतकालप्रमाणञ्चेति तत्र नियतकालपमाणस्यायुषः सव्वमुत्कृष्टं प्रमाणमस्मिन काले वर्षशतमिति । अस्य विस्तार इन्द्रियोपक्रमणीये श्लोकस्थाने व्याख्यातः। अस्मिन् काले इति कलियुग इति कश्चित् तेन “शतायुर्वे पुरुष” इति श्रुतेः “शतायुपः पुत्रपौत्रान् वृणीष्व” इति कठोपनिषदि च "जिजीविषे शतं समा” इति ईशोपनिषदि च दर्शनात् । एवञ्च समाः शतमव्याधिरायुषा न वियुज्यते इति स्ववचनदर्शनाच्च । न हि सर्वे बहुसख्यापनाथेमेकमेव शब्दं प्रयुञ्जते। तस्मादस्मिन् कल्पे इति कल्परूपकालाथै कालशब्दप्रयोगः। हिताहितसेवनात् तस्य बृद्धि हासौ भवत इति इत्यष्टमप्रश्नोत्तरम् । अथ कानि चास्य परमायुषो निमित्तानीत्यस्य नवमप्रश्नस्योत्तरमाह-तस्येत्यादि। प्रकृतिगुणसम्पत् प्रकृतीनां मातुः शोणितं, पितुः शुक्रमात्मा च, सात्म्यश्च, रसश्चेति, मातुराहारः सत्त्वञ्चेत्येतासां प्रकृतीनां गुणानां सम्पत्। आत्मसम्पदिति तत् पुरुषस्य। सात्म्योपसेवनञ्चेति। इति नवमप्रश्नोत्तरम् ॥१९॥
गङ्गाधरः-अथाध्यायाोपसंहारायाह-तत्र श्लोका इत्यादि। शरीरविचय इत्यादिना सविचयप्रयोजनं शारीरं यत् । समयोगवाहिन इत्यादिना तच्छरीरं यथा वर्तते यथामयैः क्लिष्टं भवति यथा चामयैः संक्लेशं विनाशं वा याति। वैषम्यगमनं हीत्यादिना अस्य ये धातवो वृद्धिहासौ यान्ति। गुणात्मसम्पदिति प्रकृतिसम्पत्, गुणसम्पत्, आत्मसम्पत् । तत्र प्रकृतिसम्पत् समवातादिप्रकृतिता. समप्रकृतिर्हि चिरायुर्भवति, गुणसम्पत् तु सारसंहननादिभिरायुष्यलक्षणैर्योगः किंवा या प्रकृतेर्मातृपित्रादपकरणस्य गुणसम्पत्, सा प्रकृतिगुणसम्पत् । आत्मनस्तु चिरायुष्टकारणधर्मयुक्तता सम्पत् ॥ १७-१९॥
चक्रपाणिः-संग्रह 'ये चास्य धातवः', इत्यनेन 'मांसं मांसेन वर्द्धते' इत्यादौ धातुरूपेणोक्त
For Private and Personal Use Only