________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३०
चरक-संहिता। शरीरविचयशरीर मृत्युरकाले च। नैकान्तिकमत्र। यदि ह्यकाले मृत्युन स्यान्नियतकालप्रमाणमायुः सवं स्यात् ॥ १८॥ __ एवं गो हि हिताहितज्ञानमकारणं स्यात्, प्रत्यक्षानुमानोपदेशाश्चाप्रमाणाः स्युः, ये प्रमाणभूताः सर्व्वतन्त्रेषु यरायुष्याण्यनायुष्याणि चोपलभ्यन्ते। वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते नाकाले मृत्युरस्तीति । वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले। तस्य निमित्तं प्रकृतिगुणात्मसम्पत् सात्मोपसेवनञ्चेति ॥१६॥ कालाकालयोदृष्टान्तमाह--लोकेऽपीत्यादि। नैकान्तिकमत्रेति अत्र मृत्यौ कालाकालयोनॆ कान्तिकखमिति । युक्त्यन्तरमाहानैकान्तिकत्वे-यदि हीत्यादि। हि यस्मात् अकाले यदि मृत्युनं स्यात् तर्हि सर्वमायुनियतकालप्रमाणं स्यात् न हि कश्चित् दीर्घायुः कश्चिदल्पायुर्वा स्यात् ॥१८॥
गङ्गाधरः-यदि च सर्वमायुर्नियतकालप्रमाणं स्वीकुर्मः का च तेन हानिरित्यत आह-एवमित्यादि। हि यस्मादेवं सर्वमायुर्नियतकालप्रमाणमिति गतेऽभ्युपगते हिताहितज्ञानमकारणं स्यात्। हितसेवनेन चिरायुरहिताचरणेनाल्पायुरिति प्रयोजनाभावात् । ननु दीर्घायुरल्पायुश्च स्वभावतो न हिताहिताभ्यामिति चेन्न । कुत इत्यत आह–प्रत्यक्षेत्यादि। ये प्रत्यक्षादितः प्रमाणभूता यैः सर्व्वतन्त्रेषु आयुष्याणि अनायुष्याणि चोपलभ्यन्ते च तेऽप्रमाणाः स्युः। आप्तोपदेशतः सर्वतत्रषु यानि निषेव्य दीर्घायुभवन् दृश्यते, स्वल्पायुभवन्नपराणि निषेव्य दृश्यतेऽनुमीयते च तथादर्शनात् । यथा ब्रह्मचयं हितमहितमतिमैथुनादिकम्। अत एवोभयमस्ति काले मृत्युरकाले च नैकान्तिकमत्र । तस्मात् नाकाले मृत्युरस्तीत्येतद्वादमृषीणां वाग्वस्तुमात्रं धीयते, 'अकाल'शब्देनानुचितः कालः, न तु कालविग्रहः। सिद्धान्तमुपसंहरति-तस्मादित्यादि। नैकान्तिकमिति कालमृत्युरेव परं भवति, किंवा अकालमृत्युरेव परं भवतीत्यैकान्तिकपक्षो नास्ति । अकालमृत्योरभावपक्षे दूषणमाह-यदि हीत्यादि । हिताहितज्ञानमकालमृत्युप्रतिषेधार्थ विधीयते । एवं चेदकालमृत्यु स्ति, तदा हिताहितज्ञानं निष्प्रयोजनं स्यात् । प्रत्यक्षानुमानोपदेशा अप्रमाणानि स्युरिति, आयुर्वेदसम्बन्धाः प्रत्यक्षादयः आयुर्चदार्थदर्शकाः आयुष्यानायुष्यार्थाभावादप्रमाणभूताः स्युरिति भावः। दूपितपक्षं निःसारतया दर्शयन्नाह-वागित्यादि । “किञ्चास्य परमायुः" इत्यस्य प्रश्नस्योत्तरमाह-वर्षशतमिति । अस्मिन् काले कलौ। शेषप्रश्नस्योत्तरम्-तस्येत्यादि । प्रकृति
For Private and Personal Use Only