SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri ke www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४० चरक-संहिता। शरीरसंख्यानाम शारीरंम् पच्चेन्द्रियाधिष्ठानानि, तद् यथा त्वग जिह्वा नासिकारिणी कौँ च। पञ्च बुद्धीन्द्रियाणि, तद् यथा-स्पर्शनं रसनं घ्राणं दर्शनं श्रोत्रमिति । पञ्च कम्में न्द्रियाणि, तद् यथा-- हस्तौ पादौ पायुरुपस्थो जिह्वा चेति ॥६॥ हृदयं चेतनाधिष्ठानमेकम् । दश प्राणायतनानि। तद् यथा---मूर्दा कण्ठो हृदयं नाभिदं वस्तिरोजः शुक्र शोणितं इतरसक्थिवाहू च व्याख्यातो। तान्यष्टोत्तरशतमस्थ्नाम् । श्रोण्यां पश्च । तेषां वे नितम्वे । गुदभगत्रिकसंश्रितमेकैकम् । पार्वे पत्रिंशत् एवमेकस्मिन्, द्वितीयेऽपवम् । पृष्ठे त्रिंशत् । द्वे अक्षसंज्ञ। सप्तदशोरसि। ग्रीवायामेकादश। कण्ठनाड्यां चखारि। द्वे हन्वोदन्ता द्वात्रिंशत् । नासायां त्रीणि। द्व तालुनि । गण्डकर्णशङ्खध्वेकैकं तानि षट् । षट् शिरसि । तानि षट्षष्टिरिति त्रीणि शतान्यस्थ्नां पूयन्ते। इत्यस्थिसंग्रहो व्याख्यातो भवति ॥५॥ गङ्गाधरः-अथ पञ्चेन्द्रियाधिष्ठानानीति। तद् यथा-खजिह्वत्यादि। खचामुत्पत्तिरुक्ता। जिह्वायास्तूत्पत्तिः सुश्रुतेनोक्ता-उदरे पच्यमानानामाध्मानाद रुक्मसारवत् । कफशोणितमांसानां सारो जिह्वा प्रजायते ।। पञ्च बुद्धीन्द्रियाणीत्यादि स्पष्टम् । पश्च कर्मेन्द्रियाणीति । जिह्वा चेति वागिन्द्रियं न तु रसनेन्द्रियम्। द्वयोरधिष्ठानं हि जिह्वा ॥६॥ गङ्गाधरः-हृदयमिति सुश्रुतेऽप्युक्तम् । शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः। तस्याधो वामतः प्लीहा फुपफसश्च, दक्षिणतो यकृत् क्लोम च। तद्धृदयं विशेषेण चेतनास्थानमतस्तस्मिन् तमसाटते सर्वे प्राणिनः स्वपन्ति। भवति चात्र। पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम्। जाग्रतस्तद् विकशति स्वपतश्च निमीलतीति । विस्तरस्तु अथदशमहामूलीयेऽस्योक्तः। दश प्राणायतनानीति च विस्तरेण दशप्राणायतनिकेऽध्याये व्याख्यातम् । तेषु दशसु मध्ये पूर्वाणि भूर्द्धकण्ठहृदयनाभिस्थालकाचुदानि तु पशु कामूलान्यर्बुदाकाराण्यस्थीनि। नासिकागण्डकूटललाटानामेकमूलत्वा. देकमेवास्थि गणनीयम्। ये तु पृथगङ्गानि पठन्ति, तेषां नासागण्डकूटललाटानां त्रयाणां त्रीन्येवास्थीनि, एकत्वेन तु संख्यापूरणम् । अक्षिणी कौ च पृथक्त ऽपि एकैकेन्द्रियाधिष्ठानत्वेन एकत्वेन ग्राहेय। एवं हस्तौ पादौ च एकतया ग्राह्यौ ॥ ५॥६॥ चक्रपाणिः-इह दशप्राणायतनेषु दशप्राणायतनीयोक्तौ शङ्खौ परित्यज्य नाभिं मांसञ्च गृहीतम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy