________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः शारीरस्थानम् ।
२०२७ मरतीत्येके भाषन्ते । तच्च असम्यक् । न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यो कालखलक्षणभावात् ॥ १७॥
तथाहुरपरे-अकालमृत्यु स्ति, यो यदाम्रियते स तस्य नियतो स सच्चः काल एव म्रियते। ननु योऽयं कश्चिबाल्ये म्रियतेऽपरो यौवने, सोऽपि सव्वः किं काल एव म्रियते कस्मादित्यतो हेतुमाह-न हीत्यादि। हि यस्मात् कालच्छिद्र नास्ति । कालो हि महानसङ्ख्यो नित्यगश्चक्रवद भ्रमति न कालव्यतिरेकेण कश्चिदस्ति यस्त्वकालोऽभिधीयते। इत्यतोऽकालाभावाद योऽयं वत्तते स यदा मरिष्यति सोऽप्यस्मिन्नेव काले सवैः काल एव म्रियते। इति कालमृत्युरेवास्ति न खकालमृत्युरस्तीत्येके भाषन्ते एके मुनयो वदन्ति । मतमेतद् दूषयति-तच्चेत्यादि। ननु कस्मात् तदसम्यगित्यत आहन हीत्यादि। हि यस्मात् कालस्याछिद्रता सच्छिद्रता वा कालस्याविच्छेदेन चक्रवभ्रमणस्वभावस्य लक्षणभावानोपपद्यते। चक्रवदभ्रमणेन नित्यगवस्य लक्षणत्वेन सच्छिद्रतानोपपद्यते। शीतोष्णवर्षादिस्वलक्षणत्वेन पड़ ऋतुमासपक्षदिनरात्रिप्रहरादिस्खलक्षणत्वेनाच्छिद्रता च नोपपद्यते ऋतुमासादिलक्षणत्वेनाच्छिद्रता नोपपद्यते इति भावस्तस्मात् तदसम्यक् ॥१७॥
गङ्गाधरः-तथाहुरित्यादिना परेषां मतमाह-तथा अकालमृत्युरितीति आहुरपरेऽन्ये मुनयः। परन्तु यो यदा म्रियते स तस्य नियतो मृत्युकाल इति कालमृत्युरेव हि भूतानामस्तीति। ननु यो यदा म्रियते स तस्य नियतो मृत्योः कालः, स च यद्यरिष्टाधिकारोक्तलक्षणैज्योतिपादिना च विज्ञ यः तर्हि तेन विज्ञाय कालपरिमाणं प्रागपि ततः कालाद युद्धादावसीषुशूलादिप्रहरणादिना हतस्याकालमृत्युदृश्यते इति चेन्न। तथा मृत्युचिह्नमपि हि तस्य वर्तत एवेति। अरिष्टादि शाखा तस्य नियत एवेति । (परे खित्यादि।) कश्चिदित्यादि। न हि काले छिद्रमस्तीति कालविहितः कश्चिदवकाशोऽस्तीति यं कालशून्यमवकाशम् आसाद्याकाले मृत्युः स्यादिति भावः। एतद् दूषयति तच्चेत्यादिना। सान्तरं यदवयविद्व्यम्, तत् सच्छिद्रमित्युच्यते। यच्च निरन्तरम्, तदच्छिद्गम्। तेन कालस्य निरवयवस्य सच्छिद्रताऽच्छिद्रता वा न सम्भवति, तेन यदुच्यते-“कालस्याच्छिद्गत्वान्नाकाले मृत्युरस्ति" इति तदयुक्तमिति भावः। यत् त्वकालमृत्युव्यापकत्वेन कालस्योपचरितच्छिद्रत्वम्, तदुत्तरवक्ष्यमाणैकजातीयमतदूषणेनैव दूषितम्। कालस्वलक्षणस्वभावादिति कालस्व लक्षणे सच्छिद्रताया अच्छिद्रतायाश्च अभावादित्यर्थः। एकीयमतान्तरमाह-तथारित्यादि। यो यदा म्रियते, स एव तस्य नियतो
For Private and Personal Use Only