________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२८
चरक-संहिता। शरीरविवयशारीरम् मृत्युकालः, स सर्वभूतानां सत्यः समक्रियत्वादिति। तदपि चान्यथार्थग्रहणम् । न हि कश्चिन्न म्रियते इति समक्रियः। कालः पुनरायुषःप्रमाणमधिकृत्योच्यते। यस्य चेष्टं यो यदाम्रियते तस्य स नियतो मृत्युकाल इति । तस्य सर्वे भावा यथास्वं नियतकाला कालः किञ्चिदभूतमधुना न मारयत्यनुग्रहात्, किचिच्च भूतमधुना मारयति निग्रहादिति विषमक्रियो न भवति परन्तु समक्रियखात् सर्वभूतानां सत्यश्च। सर्वभूतानां प्राक्तनकाद्यनुरूपेणायुषः क्षये कस्मिंश्चित् काले कस्यचिन्मरणं कस्यचिदायुषः शेषे सति कस्मिंश्चित् काले जीवनं न किमपि भूतम् । कालो मारयति न, वा जीवयति । परन्तु प्राक्तनकर्मादिवशादायुषः कालपरिसंख्यापूरणकालतो म्रियन्ते सपियेव भूतानीति। कालः सर्वभूतानां समक्रियखात् सत्यः प्रकृतार्थकारीति ; तस्मादकालमृत्यु स्त्यस्ति च कालमृत्युरेवेति पर आहुः । मतञ्चैतद दृषयतितदपि चेत्यादि। अन्यथार्थग्रहणमसम्यग ज्ञानम्। ननु कस्मादन्यथार्थग्रहण तदित्यतो हेतुमाह-न हीत्यादि। हि यस्मात् कश्चिन्न म्रियते, कालः किश्चिद्भूतं न मारयति द्वपात् किञ्चिद्भतं न जीवयत्यनुग्रहादिति समक्रियः कालो नोच्यते पुनः काल आयुषः प्रमाणं परिमाणमधिकृत्योच्यते। मरणजीवनहेतुतया कालो याच्यते तहि सव्वषां सर्वदा मरणापत्तिने हि मारकः कश्चित् कालो नियतो दृश्यते सर्वदा हि म्रियते सव्वदा च जीवतीत्यतश्च कालो न मरणमधिकृत्योच्यते परन्वायुषः परिमाणमधिकृत्योच्यते । परिमाणे परिपूर्णकाले मरणकारणाम्रियते इत्यतो न समक्रियत्वं हेतु रिति समक्रियवादिमतदूषणम्। अथ यस्य चेत्यादिना यो यदा म्रियते स तस्य नियतो मृत्युकाल इति मतं दूषयति। तस्येति तस्य वादिनो मते सर्व भावा मृत्युकालः, इति कथं ज्ञायते इत्याह-कालः सर्वभूतानां सत्यः समक्रियत्वादिति, यस्मात् कालः सर्वभूतानामविशेषेण मारकतया समक्रियः, न रागात् किञ्चिदमूतं मारयति, न द्वेषाद वा किञ्चित् तु, किन्तु सर्वाण्येव हन्ति । तेन सर्वभूतानामयं सत्यो रागद्वेषशून्य इत्यर्थः। ततश्च रागद्वपशुन्यतया उचित एव परं मारयति, नानुचित इति भावः। दूषयति एतदपीत्यादिना। न हि कश्चिन्न म्रियत इति कृत्वा समक्रियः कालो भवत्येव, न तु शतवर्षलक्षणमायुःप्रमाणमधिकृत्य भवता समक्रियः कालोऽभिधीयते, यदि हि शतवर्षायुःप्रमाणेऽपि समक्रियः स्यात्, तेन शतवर्षाद वा पूर्व न केचिम्रियेरन्, दृश्यते तत्। तस्मादेवमूतसमनियत्वेन कालस्य शतवर्षायु:
For Private and Personal Use Only