________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२६
वरक-संहिता। [शरीरविचयशारीरम् आप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाच्च ® दोषप्रकोपानुरूपाश्च देवादिप्रकोपनिमित्ताश्च विकाराः समुपलभ्यन्ते ॥ १६॥
कालाकाल त्वोस्तु भावाभावयोरिदमध्यवसितं नः। यः कश्चिन्म्रियते सर्वः काल एव स म्रियते। न हि कालच्छिद्ररोपितः शीघ्रमुत्पाट्य प्रतिरोपितो विषमाभ्यां वातातपाभ्यामप्रतिष्ठितमूलोऽस्थिरमूलः सद्य उपहन्यते तद्वत् । इति पञ्चमप्रश्नस्योत्तरम् । अथ किश्चास्य देवादिप्रकोपनिमित्ता विकाराः समुपलभ्यन्ते, इति षष्ठप्रश्नस्योत्तरमाहआप्तोपदेशादित्यादि। अस्य जातस्य शिशोदवादिप्रकोपनिमित्ताः स्कन्दादिग्रहावेशनिमित्ता विकारा दोषप्रकोपानुरूपा आप्तोपदेशात् समुपलभ्यन्तेऽद्भ त(रूप) दर्शनादाश्चय्ये-(रूप)-दशनाच समुपलभ्यन्ते। समुत्थानविशेषान्निदानविशेषाल्लिङ्गविशेषाचिकित्सितविशेषाच समुपलभ्यन्ते। इति षष्ठप्रश्नोत्तरम् ॥१६॥
गङ्गाधरः-अथ कालमृखयोर्भावाभावयोः किमध्यवस्यति, अकालमृत्योर्भावे किमध्यवस्यति, अकालमृत्योरभावे च किमध्यवस्यतीति प्रश्नोत्तरमाहकालाकालेत्यादि। इदमित्यत उत्तरं वक्ष्यमाणम्। अध्यवसितं निश्चयेन नोऽस्माकं व्यवसितम् । तत् किमित्यत आह-य इत्यादि। यः कश्चित् म्रियते प्रश्नस्योत्तरम्-आप्तोपदेशादित्यादि। आप्तोपदेश इति कुमारतन्त्रोपदेशो ब्रह्मादिप्रणीतः । तत्र हि कुमाराणां देवादिनिमित्तविकाराः प्रतिपाद्यन्ते। देवादिग्रहणेन च तदनुचरा अपि गृह्यन्ते। स्फन्दग्रहादयः सुश्रुतोक्ता देवादयश्चाष्टौ। यदुक्तम्-'देवास्तथा शत्रुगणाश्च सेषां गन्धर्वयक्षाः पितरो भुजङ्गाः। तथैव रक्षांसि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाः स्युः ॥' इति। अनुमानमप्यत्राह-अद्भुतेत्यादि। अदभुतमाश्चर्यमिति यावत्, अद्भुतरूपदर्शनादिना यद् भवति, तच्चामानुषबलशोभादि ज्ञेयम् । एतद्धि दोपाजन्यत्वाद् देवादिकारणं गमयति। समुत्थानादिविशेष आगन्तूनामागन्तुविकारेषु स्फुट एव। अदोषप्रकोपानुरूपा इति दोषप्रकोपजन्यरोगविधर्माणः ॥ १६ ॥
चक्रपाणिः-कालाकालेत्यादौ 'इदमध्यवसितम्' इत्यनेन, प्रकरणव्यवस्थापनीयत्वम्, 'तस्माद अभयमस्ति काले मृत्युरकाले च' इति ग्रन्थे वक्ष्यमाणं प्रत्यवमृषति । एकीयमतमाह-यः
* भदोषप्रकोपानुरूपा इति वा पाठः ।
For Private and Personal Use Only