SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१२ चरक-संहिता। शरीरविचयशारारम् रुक्ष-मन्द-तीक्ष्ण-स्थिरसरमृदुकठिन-विशदपिच्छिलश्लदणखरसूक्ष्मस्थूलसान्द्रद्रवाः। तेषु ये ते गुरवो धातवो गुरुभिराहारविकारगुणैरभ्यस्यमानैरा याय्यन्ने लघवश्च हसन्ति । लयवस्तु येते लघुभिरेवाप्याध्यन्ते, गुग्वश्च हसन्ति । एवमेव सर्वधातुगुणानां सामान्याद वृद्धिर्विपर्ययात् ह्रासः। तस्मान्मांसमाप्याय्यते मांसेन भूयोऽन्येभ्यः शरीरधातुभ्यः। तथा लोहितं लोहितेन, जनकखन्तु नान्तरीक्षादिद्रव्याहारतो दृश्यते । दृश्यते च प्रभावात् खरस्पर्शवर्णरसगन्धजनकवं द्रव्याणामिति। ननु के च ते गुणा इत्यत आह-तद् यथेत्यादि । गुदियो द्रवान्ता विंशतिः शरीरधातगुणाः पाञ्चभौतिकाहारद्रव्यसामान्यविशेषज्ञानशक्तिजनका इत्यर्थः । उदाहरणमाह-तेष्वित्यादि । आप्याय्यन्ते इति णिजन्तात् कम्मणि तिङ, ते इति प्रयोज्यकर्त्ता कर्मसंज्ञायामाख्यातेनोक्तः। धातून इत्यणिजन्तत्वे कर्म, प्रयोजकस्तु कर्ता गुरुभिरिति। लघवस्तु ये ते लघुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, धातव इत्येवं योज्यं पूव्वैवत् । गुरुलए गुणावुदाहृत्य शेषानतिदिशति--एवमेवेत्यादि हास इत्यन्तेन। वृद्धिहासयोगुणत उदाहृत्य तैगुणैर्धातुत उदाहरति-तस्मादित्यादि। तस्मात् गुवादितो गुदि द्धि हासौ, लध्वादितो लघ्वादेष्ट द्धि हासो गुदिरित्यस्माद्धतोमांसमाप्याय्यते मांसेन, भूयोऽन्येभ्यः शरीरधातुभ्यः । यद्यपि शरीरधातुगुणा भवन्ति, तथापि ते वृद्धि हासञ्च प्रति अनतिप्रयोजनत्वाद् इहानुक्ताः । रसस्तु प्रधानत्वेन प्रकरणानन्तरोक्त एवेति नेहोक्तः । स्पर्शस्तु शीतोष्णसंगृहीत एव । शब्दरूपगन्धास्तु वृद्धौ हासे च नातिप्रयोजना इति नोक्ताः। संख्या ज्ञानं गणना वा, तत्र सामर्थ्य कुर्वन्तीति संख्यासामर्थ्यकराः। एते हि गुर्वादयो ज्ञाता विंशति दियो भवन्तीति यदङ्गानां संख्यासामर्थ्यरूपम्, तत् कुर्वन्ति गुरुलध्वादयः। परस्परविपर्ययात्मकान् द्वन्द्वान् दश गुणान् दर्शयित्वा तेषाञ्च द्रव्यसम्बन्धानां शृङ्गग्राहिकतया कहि-तेष्वित्यादि। लघवश्च ह्रसन्तीति च्छेदः। शेष. शीतादिगुणानां वृद्धिमतिदेशेनाह-एवमित्यादि। सामान्ययोगादिति समानैकरूपार्थयोगात् । तञ्च सामान्यं सर्वथा समानगुणजातिरूपं भवति, यथा-पोष्यपोषकयोमांसयोः। क्वचिद् विजातीयगुणा एव पोष्यपोषकवृत्तयो भवन्ति, यथा-धीरशुक्रयोः। तत्रात्यर्थवृद्धिकत्तु त्वेन प्रथमं जातिरूपमेव सामान्यं सर्वगुणसामान्ययुक्तमुदाहरति-तस्मादित्यादि। भूयस्तरमन्येभ्य इत्यनेन, मांसेन मांसगुणभूयिष्ठतया रक्तादिवृद्धिरपि क्रियते, भूयसी तु सामान्ययोगान्मांसस्य वृद्धिः * सामान्ययोगात् इति चक्रेण पठ्यते । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy