________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
शारीरस्थानम् ।
२०१३ मेदो मेदसा, वसा वसया, अस्थि तरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्र शुक्रण, गर्भरत्वामगर्भेण ॥ ६॥
यत्र वेलनणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्, सन्निहितानां वाप्ययुक्तत्वान्नोपयोगः घृणित्वाद यस्माद्वा कारणात् स च धातुरभिवर्द्धयितव्यः स्यात् । तस्य ये समानगुणाः स्युराहारविकारा असेव्याश्च, तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनाञ्च आहारविकाराणामुपयोगः स्यात्।
मांसं हि का स्नान गुरुस्नेहादिगुणतः समानं मांसस्य, न खन्यशरीरधातवः कृत्स्नगुणतो मांससमाना इत्यतो भूय एव मांसं मांसेनाप्याय्यते। यावद्भिर्हि गुणेयो यस्य समानः स तावद्भिगुणैस्तेन वर्द्धत इति भावः। एवमुत्तरेषु वोध्यम् । तरुणास्थ्नेति दृढ़त्वेनास्थिभक्षणासम्भवात् इति ॥६॥
गङ्गाधरः--शरीरधातूनां वृद्धिहासावुदाहृत्य कस्य धातुर्वर्तयितव्यः कस्य हासयितव्य इति तदाह-यत्र त्वेवमित्यादि। यत्र धातौ एवंलक्षणेन मांसस्य मांसेनेत्येवमादिरूपेण असानिध्यमसनिधानं नोपयोगः स्यात् सन्निहितानामेवंरूपेण कृत्स्नेन सामान्येन सामान्यवतामाहारविकाराणामभ्यवहतानां वा घृणिखादयुक्तं सदप्य'हणं स्यादन्यस्माद वा कारणादयुक्तं सदप्यटहणं स्यात् स च धातुरभिवर्द्धयितव्यः। ननु केन प्रकारेण वर्द्धयितव्यः किं मनुष्यमांसेन मनुष्यमांसमित्येवमादि स्यादित्यत आह-तस्येत्यादि । यदि घृणिवादन्यस्माद् वा कारणात् मांसवर्द्धनाय मांसं नोपयोक्तुमर्हति यस्य धातोस्तस्य धातोर्य समानगुणा मनुष्यमांसादयोऽसेव्याश्वाहारविकारास्तत्र धातौ तत्समानगुणभूयिष्ठानामन्यद्रव्यात्मकानामन्यप्रकृतिकानां छागादिप्रकृतिकानाश्चाहारक्रियत इति दर्शयति । लोहितं लोहितेनैवेत्येवमादौ "भूयस्तरमन्येभ्यः” इत्यनुवर्तनीयम् । गर्भस्त्वामगर्भेणेत्यत्र आमगर्भेणाण्डादिरूपेण समुदितानां मांसादीनां साम्यनिष्पन्नानां वृद्धिरुच्यते ॥६॥ ___ चक्रपाणिः--सम्प्रति समानगुणभूयिष्ठेन विजातीयेन बृद्धिमाह-यत्रेत्यादि। एवं लक्षणेनेति तुल्यजातिरूपेण। उक्ताथै विवृणोति-घृणित्वादित्यादि। अन्यस्माद् वा कारणादित्यभक्ष्यामगर्भशुक्रादिभक्षणजन्याधर्मतया। तत्रेत्यनेन असन्निहितान्, घृणया कारणान्तरेण च सनिहिता अपि
For Private and Personal Use Only