________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
शारीरस्थानम् ।
२०११ उदीर्णानाञ्च गतिमतां साहसानाञ्च वर्जनम्। स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते ॥ ५॥
धातः पुनः शारीराः समानगुणः समानगुणभूयिष्ठापि आहारविकाररभ्यस्यमानर्वृद्धिं प्राप्नुवन्ति ; हासन्तु विपरीतगुणविपरीतगुणभूयिष्ठाप्याहारैरभ्यस्यमानः। तत्रमे शरीरधातुगुणाः संख्यासामर्थ्यकराः । तद् यथा--गुरुलघुशीतोष्णस्निग्धसन्धारणं गतिमतामनुदीर्णानां, मलादीनामुदीर्णानामसन्धारणं तथा साहसानाश्च वजनं स्वस्थवृत्तञ्चैतावदेव धातूनां साम्यानुग्रहार्थमुपदिश्यते ॥५॥
गङ्गाधरः-ननु के धातवः कैद्धिं कैश्च हासं प्राप्नुवन्तीत्यत आहशतव इत्यादि। शारीरा इत्यनेन मानसानां निरासः। समानगुणभूयिष्ठैवेति भूयिष्टगुणानापल्पिष्ठगुणावजयिखात् । उक्तं हि विरुद्धगुणसमवाये भूयसाल्पमवजीयते इति। जैमिनिनाप्युक्तं--विरुद्धधर्मसमवाये भूयसां स्यात् सधम्मकसमिति। अभ्यस्यमानने त्वेकवारमात्राभ्यवहारतः। ननु शारीरधातूनां के गुणा इत्यत आह-तत्रेमे इत्यादि। शरीरधातुगुणाः संख्यासामथ्र्यकरा इमे वक्ष्यमाणा गुह्यदय एव शरीरधातुगुणा आहारद्रव्याणां पाञ्चभौतिकानां सामान्यविशेषयोर्टाने सामर्थ्यकराः शक्तिजनका न बन्ये बुद्धग्रादयः शब्दादयः परखादयो वा शरीरस्य वृद्धौ वा हासे वा सामान्यविशेषज्ञाने शक्तिकराः। बुद्धग्रादिजनकवं हि द्रव्याणां प्रभावात् । परखादिजनकलञ्च गुणैर्नास्ति। शब्दादिकालबुद्दीन्द्रियार्थमिथ्यायोगादीनां वर्जनं सर्वातियोगसन्धारणम् । कालमिथ्यायोगादेस्तु दुष्परिहरस्य प्रतिक्रिययैव वर्जनम्। गतिमतामिति पुरीषादीनां वहिर्गमनशीलानाम् । साहसानाम् अयथाबलानाम् ॥ ५ ॥
चक्रपाणिः-- अथ रसादिधातूनां वृद्धिहासावुक्तौ । तौ सात्म्याहाराभ्यां क्रियेते, तद् दर्शयितुमाहधातव इत्यादि। शारीराः' इतिपदेनाध्यात्मिकान् बुद्धवादीन् व्यवच्छिनत्ति। यतो न बुद्धद्यादयः समान गुणवचनाद् व्यावर्त्तन्ते, असहानगुणानाक्रामन्ति। समान एव परं गुणो यस्य तत्समानगुणम्, यथा--मांसं मांसस्य समानगुणभूयिष्ठम् । यदल्पसमानगुणम्, यथा-शुक्रस्य क्षीरम्, क्षीरस्यातिद्रवत्वात् शुक्रेऽल्पसमानगुणम् । अभ्यस्यमारित्यनेन सकृदुपयोगाद वृद्धि हासश्च निषेधयति । विपरीता एव परं गुणा यस्य तद् विपरीतगुणम् । अल्पसमानगुणन्तु विपरीत. गुणभूयिष्ठम्। अथ के ते शरीरधातुगुगाः, ये तेषां गुणैः समानाश्वोच्यन्त इत्याह-तत्रेत्यादि। शरीरधातु गुणा इति विशेषेण प्रस्तुतत्वेनानभि याम गुणान् बुद्धयादीन् निरस्यति। परादयस्तु
For Private and Personal Use Only