SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१० चरक-सोहता। शरीरविचयशारीर ; . समज्ञातान् एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तविपरीतकरणलक्षणसमज्ञातचेष्टया सममिच्छन्ति कर्त्तम्। देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणाञ्च कियोपयोगः सम्यक्। सर्वाभियोगोऽनुदीर्णानां सन्धारणमसन्धारणम् विपर्ययाणामुपयोगमाह-सात्म्येत्यादि। यान् रसगुणान् आहारविकारान् सात्मासमशातान् सात्म्यत्वेन सुखानुबन्धहेतुत्वेन धातुसमत्वेन धातुसमगुणतया ज्ञातान् एकप्रकारभूयिष्ठांश्च मधुराय कप्रकारवहुलानपि उपयुञ्जानाः कुशलाः स्वस्थास्तेभ्य आहारविकारेभ्यो विपरीतानामाहारविकाराणां करणलक्षणेन संस्कारतो लाक्षणिकतया समस्येन ज्ञातस्यैव द्रव्यस्य समीकरणार्थ संस्कारप्रकरणीभूता या चेष्टा तया तद्विपरीतानाहारविकारानपि सगं धातुसमं कर्तुमिच्छन्ति । ननु कुतो विपरीतानायेवंरूपेण सगीकरणमिष्यते पायेण यत् समीभवति तेनैवेष्टसिद्धिः स्यादिति चेत्, न। कस्मादित्यत आह-देशेत्यादि । देशविपरीतानां कालविपरीतानामात्मनो धातुगुणविपरीतानाश्च कर्मणां सम्यक् क्रिया तत्त्वज्ञानं आहारविकाराणाञ्च सम्यक उपयोगः। तथा सर्वाभियोगः स्वाभाविकपथ्यत्वेनाज्ञाता इति सात्म्यसमाज्ञाताः, 'सम'शब्देनात्र पथ्यमुच्यते। किंवा सर्वदा सात्म्यत्वेन समाज्ञाताः सात्म्यसमाज्ञाताः । तेन असात्म्यानामुपयोगमेव प्रतिक्षिपति । यच्च तावत् रसादयः पर्यायेणोपयुज्यते तत् साधु। यत्र त्वेकप्रकारा एव रसादयः कुतश्चिन्द्रुतोरभ्यस्यन्ते, तत्र को विधिरित्याह--एकप्रकारेत्यादि । तत्रोपयुक्तकप्रकाररसादिभूयिष्टाद् रसादेविपरीतमेव करोतीति तविपरीतकरी समाज्ञाता चेष्टा। तया चेष्टया समं कर्तुमिच्छन्तीति, एकप्रकारभूयिष्ठायप. योगेन आधीयमानवैषम्यशरीरं समधातु कर्तुमिच्छन्ति। एतद्दाहरणम्-यथा मधुरप्रकारमूयिष्टं च आहारप्रकारमुपयुञ्जीत, तस्य मधुरसमानकफादिवृद्धिमाशङ्कय कफादिक्षयकग व्यायामादिचेष्टा, तया सामान्यमाधीयते। किंवा तविपरीतकरी च, तथा समत्वेन च आज्ञाता या चेष्टा, सा तद्विपरीतकरसमाज्ञाता, तेन क्रियमाणम् अतियोगादि निषेधयति । सम्प्रति प्रस्तावागतं स्वस्थवृत्तं समासेनाह-देशेत्यादि । देशादिभिः 'गुण'शब्दः सम्बध्यते। 'आत्म'शब्देनेह शरीरमुच्यते। देशविपरीतं कर्म यथा--- मरौ स्वप्नः । कालविपरीतं कर्म यथा-- वसन्त व्यायामः । आत्मविपरीतं कर्म यथा - स्थूलशरीरे व्यायामजागरणादि। एवमाहारप्रभेदाश्च कालादिविपरीता उन्नेयाः। कर्मणां सम्यक्रियोपयोगस्तथा आहारविकाराणां सम्यकक्रियोपयोगः। मिथ्यायोगायोगरूपोऽप्यतियोगो ज्ञेयः। तेन सर्वेषां * सर्वातियोग इति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy