________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००६
घष्ठ अध्यायः
शारीरस्थानम्। आप्यायतीति। एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठानश्च यावद्धातूनां साम्यं स्यात् ॥ ४ ॥ __ खस्थस्यापि * समधातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेण इच्छन्त्युपयोक्तम् । सात्मावृद्धहस्वधातूनामधिकमपकर्षति न्यूनमाप्याययति वृद्धस्य हासकरं यत् तदेव हस्वस्य वृद्धिकरं भवति, इति एकमेव भेषजं तस्मात् साम्यकरं भवति । अकास्नग्रन तु वृद्धं धातुसमानगुणं द्रव्यं वद्ध यति विशिष्टगुणंहासयति, हस्खश्च तथा, तस्मात् वृद्धे धातौ विपरीतगुणं भेषजं इस्वेतु धातौ समानगुणं द्रव्यं भेषजं सम्यगवचाय्यमाणं साम्यकरं भवतीति । एतावदेव धातुवैषम्ये सति धातुसाम्यकरणमेव, द्वितीयञ्च यावद धातूनां साम्यं तावत् स्वस्थवृत्तानुष्ठानमिति। स्वस्थवृत्तानुष्ठानफलपिष्टं यावद्धातूनां साम्पमिति ; अत एव पूर्वाध्यायेऽप्युक्तं "धातुसाम्यमिहोच्यत। धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ॥" इति ॥४॥
गङ्गाधरः-ननु स्वस्थाः किं भेषजमाचरन्तीत्यत आह-- स्वस्थस्यापीत्यादि । साम्यानुग्रहार्थ साम्यरक्षणार्थम् । कुशलाः स्वहितैषिणो बुद्धिमन्तोऽपि स्वस्थाः। पर्यायेण सम्यगुचितक्रमेण । पायेणाहारविकाराणामुपयोगमुक्त्वा
उक्तधातुसाम्योपादेयतां दर्शयितु भेषजप्रयोगस्य तथा स्वस्थवृत्तानुष्ठानस्य धातुसाम्यातिरिक्तं फलं निषेधयन्नाह-- एतावदेवेत्यादि। 'एतावदेव' इत्यनेन वक्ष्यमाणधातुसाम्य प्रत्यवमृपति। धातुसाम्यात्मको हि भेषजसाध्यो न धातुसाम्यादतिरिच्यते, तथा स्वस्थस्यौजस्करत्वम्, रसायनेनापि धातुसाम्यमेव विशुद्धमाधीयते। तेन धातुसाम्यादतिरिक्तमायुर्वेदसाध्य नास्तीति भावः। उक्तञ्च--'धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" इति ॥ ३॥४॥
चक्रपाणिः- ननु स्वस्थे धातुसाम्यं सिद्धमेव, न च सिद्धं साध्यते स्वस्थनिष्ठवृत्तानुष्टानेऽपि धातुसाम्यमेव फलमित्याह- स्वस्था ह्यपीत्यादि। साम्यानुग्रहार्थमिति स्वस्था एव साम्यस्य परापरसात्म्योत्. पादेन परिपालनार्थम् । रसा मधुरादयः । गुणा गुर्बादयः । आहारविकाराः खाद्यलेह्या यवाग्वादयः । पर्यायेणेति उचितेन क्रमेण, स च क्रमः, यथा-मधुरमुपयुज्य तजन्यकफवृद्धयादिप्रतिबन्धार्थ कटायपयोज्यमित्यादिः रसक्रमः, तथा गुरुमुपयुज्य तत्कार्यप्रतिबन्धार्थ लघूपयोगः, इत्येवंप्रकारो लघुगुरूपयोगक्रमः । आहारविकारेऽपि यवाग्वाधपयुज्य तत्पाकार्थ पेयादुधपयोग इत्यादिकः क्रमः । 'गुण'शब्देन च रसा अपि प्राप्यन्ते, तथापि रसाः प्राधान्यात् पृथगुक्ताः। सात्म्यसमाज्ञातानिति 'रसगुणान्' इत्यस्य, तथा 'आहारविकारांश्च' इत्यस्य विशेषणम् । सात्म्याश्च ते अभ्यासेन तथा समत्वेन
* स्वस्था ह्यपीति चक्रः ।
For Private and Personal Use Only