________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००६
चरक संहिता ।
[ शरीरविचयशारीरम्
समुदायात्मकम् । समसंयोगवाहिनो यदा ह्यस्मिन् शरीरे धातवो वैषम्यमापद्यन्ते, तदायं विनाशं बलेशं वा प्राप्नोति ॥ ३ ॥ वैषम्यगमनं पुनर्हि धातूनां वृद्धिहासगमनमका रन्येनैव । लगादीनि चेत्येते तेषां समुदायः समस्तरूपः तदात्मकं शरीरमिति सूक्ष्मशरीरेऽनुगतं न स्थूलशरीरे । त्वङ्मांसादीनां प्रकृतिभूतपञ्चमहाभूतत्वङ्मनोदशेन्द्रियार्थत्वाभावात् । मनसश्च शरीरले सत्त्वमात्मा शरीरञ्चेति सूत्रे शरीरस्य मनस्तः पृथग्वचनस्यासङ्गतेः । तस्मात् पञ्च महाभूतानि तद्विकाराश्च दशेन्द्रियपञ्चार्थास्वङ्मांसादयश्चेत्येते तेषां समुदायः समस्तरूपो न प्रत्येकरूपः तदात्मकं शरीरम् । अथवा विकारा दशेन्द्रियाण्यर्थाश्च समुदाया मातृजादिपञ्चभूतात्मकास्त्वङ्मांसादय इति ज्ञानार्थम् । शरीरमुक्त्वा शरीरस्योपकारार्थम् अपकारमाह - समेत्यादि । हि यस्मादस्मिन् शरीरे धातवस्त्वग्रक्तमांसादयः प्रसादधातवः, स्वेदादय उपधातवो वातपित्तकफमूत्रादयो मलधातवश्च समसंयोगवाहिनः समेन समुचितमानेन संयोगं परस्परं धातूनां मेलकं नीरोगतया वहन्तीति । वस्तुतः समानां स्वस्वघटकानां भावानां द्रव्यगुणकम्मैणां सम्यगारोग्यलक्षणसम्पत्रं योगं समवायं वहन्तीति समसंयोगवाहिनो धातवो यदा वैषम्यमापद्यन्ते प्राप्नुवन्ति तदा ॥ ३ ॥
गङ्गाधरः- ननु वैषम्यप्राप्तिः का ? इत्यत आह-वैषम्येत्यादि । दृद्धिहासगमनं दृद्धिगमनं ह्रासगमनञ्च । अकात्स्न्येन सर्व्वेषां धातूनामसाकल्येन
1
आत्मोच्यते । 'भूत' शब्द उपमाने । तेन चेतनाया आत्मसम्बन्धिन्या शरीर एवोपलम्भादात्मनः शरीरमधिष्ठानमिति भवति । परमार्थस्तु चेतनाश्रय आत्मा, आत्मा च निराश्रय एव किंवा चेतनस्यात्मनोऽधिष्ठानभूतमिति चेतनाधिष्ठानभूतमिति । पञ्चानां महाभूतानां विकारा रसादयः शरीरारम्भकाः, तेषां समुदायो मेलकः, स आत्मा स्वरूपं यस्य तत् तथा । 'समुदाय' शब्देन समुदायारम्भका धातव एवोच्यन्ते । तेन न संयोगमात्रस्य शरीरत्वप्रसक्तिः । किंवा समुदायः संयोग एवोच्यताम्, तथा समुदाय आत्मा कारणं यस्य शरीरस्य द्रव्यरूपस्य तत् पञ्चमहाभूतविकारसमुदायात्मकं शरीरमेव । समेनोचितप्रमाणेन धातूनां मेलकेन समयोगतया वहतीति समयोगवाहि । यदा तु धातूनां न्यूनातिरिक्तत्वेन विषमो मेलको भवति, तदा असमयोगवाहीति दर्शयन्नाह - यदा हीत्यादि । लघुना वैषम्येण रोगमात्रजनकेन क्ल ेशम्, महता दुःसाध्य रोगजनकेन वैषम्येण विनाशं मरणं प्राप्नोतीति शरीरम् ॥ ३ ॥
चक्रपाणिः - अथ किं तत् वैषम्यमित्याह – वैषम्यगमनमिति, वैषम्यगमनं वैषम्यावस्थाप्राप्तिः । * समुदायात्मकं समयोगवाहि । यदेत्यादि चक्रष्टतः पाठः ।
For Private and Personal Use Only