SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ट अध्यायः] शारीरस्थानम् । २००७ प्रकुत्या च योगपदेन विरोधिनां धातूनां वृद्धिहासौ भवतः। सकलधातूनां हि सामान्याभावेन, युगपद्धे विशेषाभावेन तु हासस्य चासम्भवात् । ननु क्षयः स्थानश्च वृद्धिश्चेति त्रिविधं वैषम्यमुक्तम्, अत्र तु वृद्धिहासगमनमिति स्ववचनविरोध इति चेत्, न, स्थानस्य पृथक्त्वे हि न वैषम्यं परन्तु साम्यमेष, विषमसहचरितत्वेन स्वस्थानाकर्षणादित्वे तु समस्तान्तर्गतत्वेन पृथग्वचनानावश्यकखात्। तद्वक्तुमाह-प्रकृत्या चेत्यादि। प्रकृत्या च वैषम्यमेव कादाचित्कमित्यर्थः, यदि हि वैषम्यमेव ब्रवते, तदा सहजसिद्धमपि धातूनां यत् न्यूनातिरिक्तत्वेन वैषम्यं, तदपि गृह्यते। तेन 'गमन'पदप्रक्षेपात् सहजं वैषम्यं परित्यज्य प्रमाणापेक्षं कदाचिदुत्पद्यमानं वैषम्यं दर्शयति। वृद्धिहासगमनन्चेह व्यस्तसमस्तवैषम्यं ज्ञेयं वृद्धिहासस्यैव विशेषाभावात्। अकात्स्नैपन प्रकृत्या चेति अकास्नेयनेति एकदेशेन, प्रकृत्येति सकलेन स्वभावेन। तेन च रसादीनाञ्च अशेषेण वृद्रिहासौ तथा अकास्नैपन वृद्रिहासौ उपसंगृहीतौ भवतः। अन्ये तु 'अकात्स्नैपन' इतिपदं क्लेशं विनाशं प्राप्नोतीत्यनेन योजयति। तेन यदापि धातवो वैषम्यमापद्यन्ते, तदापि न क्लेशविनाशौ भवतः, 'अकास्नैपन' इतिपदेन क्लेशविनाशव्यभिचारस्य विहितत्वाच्च। दृष्टन्चैतत्, यथा-वृष्यप्रयोगात् शुक्रवृद्धौ सत्यामपि न क्लेशविनाशौ भवतः, तथा बालस्य वर्द्धमानधातोरपि गुण एव परं दृश्यते। तच्च नातिसाधु । यतः बालस्य वर्द्धमानधातोरपि वयोऽनुरूपाः प्राकृतमानस्थिता एव धातवो भवन्ति, तेन न ते प्राकृतमामा वृद्धा उच्यन्ते। या तु वृष्यप्रयोगजा शुक्रवृद्धिः, सा यदि विकारकारिका न भवति, तदा तु प्राकृतमानान्तर्गता एव। एतदेव धातूनां प्राकृतमानम्यदविकारकारि। अञ्जल्यादिमानन्तु ग्रन्थान्तरेणाभिहितमपि नित्यपरोक्षतया पुनः स्वाभाविकधातुलक्षणरेव ज्ञातव्यम् । तस्माच्छुक्रस्य यावती वृद्धिरदोषा, तावती प्राकृतमानावस्थारूपैव । प्राकृतमानातिरिक्तौ चेह वृद्धिहासौ 'वैषम्यगमन शब्देनोच्यते। तस्मादादैरव व्याख्या। यस्मादेवं केवलं वृद्धिहासगमनमेव वैषम्यगमनम्। किन्तु प्रकृत्या च वैषम्यगमनं धातूनां भवतीति व्याख्या न भवति । तथा हि-"प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये" इत्यादौ प्रकृतिस्थस्य दोषस्य विकारकतत्वमुच्यते, विकारकरस्य दोषस्य प्रकृतिस्थतापि वैषम्यानुक्रियाकारित्वेन 'वैषम्य'शब्देनोच्यते। तदपि नातिसुन्दरम्। येन प्रदेशान्तरेष्वपि विविधां गतिं प्रतिपद्य प्रकृतिस्थता धातूनां निर्विकार एवोक्ता, यया-"क्षीणा जहति लिङ्ग स्वं समाः स्वं कम्म कुर्वते। दोषाः प्रवृद्धाः स्व लिङ्गं दर्शयन्ति यथाबलम्" तथा "विकारो धातुवैषम्यम्" "विकारो दुःखमेव च" एवमादिषु। यत् तु "प्रकृतिस्थं यदा पित्तम्" इत्यादि स्वमानावस्थितस्य पित्तस्य विकारकरत्वम्, तच्छरीरप्रदेशान्तरनीतस्य पित्तादेस्तु तत्प्रदेशवृद्धस्यैव विकारकर्तृत्वम्। स्वमानस्थितोऽपि दोषः प्रदेशान्तरं नीतः सन् प्रदेशस्थदोषापेक्षया वृद्ध एव भवति। तत्रापि वृद्धस्यैव विकार. कत्तत्वम्, अपश्चितश्चार्थस्तत्रैव ग्रन्थे। यत्रापि स्वमानस्थितानां रक्तादीनां वातादिदृष्टया विकार. For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy