________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातः शरीरविचयं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ शरीरविचयः शरीरोपकारार्थमिष्यते । ज्ञात्वा हि शरीरतत्त्वं शरीरोगकारकोषु भावेषु ज्ञानमुत्सद्यते, तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः॥२॥
तत्र शरीरं नाम चेतनाधिष्ठानभूतं, पञ्चमहाभूतविकारगङ्गाधरः-अथ योगारम्भे शरीराङ्गप्रत्यङ्गज्ञानापेक्षखात् खङमांसादीनां विशेषेण ज्ञानस्य प्रयोजनं वक्तुश्च शरीरविचयशारीरमारभते-अथात इत्यादि । शरीरविचयं शरीरं विशेषेण चीयते चयनं क्रियते येनेति शरीरविचयः तमधिकृत्य कृतं शारीरमिति शरीरविचयं शारीरमित्यर्थः ॥१॥
गङ्गाधरः—शरीरेत्यादि। विचयो विचयनं विज्ञानं शरीरोपकारार्थ शरीरस्योपकारः समधातुखकरणरक्षणप्रयोजनकमिष्यते। ननु कुतः शरीरोपकाराय शरीरस्य विचयः स्यादित्यत आह-ज्ञाखा हीत्यादि। हि यस्मात् । शरीरतत्त्वं शरीरस्य याथार्थ्य शाखा पुसः शरीरोपकारकरेषु शरीरस्य धातुसाम्यकरणरक्षणकारिष भावेषु ज्ञानमुत्पद्यते ॥२॥
गङ्गाधरः-ननु शरीरं किं तावदित्यत आह-तत्रेत्यादि। चेतन आत्मा तस्याधिष्ठानं भूतम्, अधिष्ठीयते यत् तदधिष्ठानं तद भूतम्। नन्वात्मनो महदादिप्वपि वाह्यजगत्सु अधिष्ठानमस्तीति तव्यवच्छेदार्थमाह-पञ्चेत्यादि। पञ्च महाभूतानि खं वायुज्योतिरापो भूरित्येतानि च विकाराश्च मनोदशेन्द्रियाण्यर्थाः
चक्रपाणिः-पुरुषविचयं मोक्षोपयुक्तत्वेन पुरुषोपकारकमभिधाय व्याक्रियमाणचिकित्सोपयुक्त शरीरोपकारकं शरीरविचयं ब्रूते। शरीरस्य विचयः विचयनं शरीरस्य प्रविभागेन ज्ञानमित्यर्थः । शरीरोपकारार्थमिति शरीरारोग्यार्थम् । अथ कथं शरीरज्ञानं शरीरोपकारकमित्याह-ज्ञात्वा हीत्यादि। शरीरस्य रक्तादिरूपस्य स्वभावरूपं तत्त्वं ज्ञात्वैव इदमस्य वृद्धस्य धातोरसामान्यगुणतयाऽवर्द्धकत्वेनोपकारकमिति, तथोक्तविपर्यायाच्चापकारकमिति ज्ञेयम्। ज्ञायते उपकार्यते शरीरतत्त्वमनेनेति वाक्यार्थः ॥ १२॥
चक्रपाणिः- समुदितस्यैव शरीरस्य स्वरूपमाह-तत्रेत्यादि। 'चेतना'पाब्देन ज्ञानकारणम्
For Private and Personal Use Only