________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००४
चरक-संहिता। पुरुषविचयशारीरम् शुद्धसत्त्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी। विचये पुरुषस्योक्ता निष्ठा च परमर्षिणा ॥ १५ ॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः ॥ ५ ॥ शारीरं विज्ञानं, हे सौम्य ! यज् झाला यच्छारीरशानेन मुनयो मुक्तसंशवाः सन्तो वीतमोहरजःस्पृहाः सन्तः प्रशमं शान्तिं जग्मुः॥१४॥
गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोकावित्यादि। निष्ठा मोक्षः ॥१५॥
अध्यायं समापयति-अग्नीत्यादि । इति वैद्य श्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ शारीरस्थानजल्पे
चतुर्थस्कन्धे पुरुषविचयशारीरजल्पाख्या पश्चमी शाखा ॥५॥ 'एतैरविमलम्' इत्यादिना 'दीपाशये यथा' इत्यन्तेन ग्रन्थेनोक्तार्थः संगृहीतः। 'शुद्धसत्त्वस्य' इत्यादिना सत्या बुद्धिरुक्ता। नैष्टिकी मोक्षसाधिका। निष्ठा मोक्षः ॥ १३-१५॥
इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक
तात्पर्यटीकायां शारीरस्थाने पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः ॥ ५॥
For Private and Personal Use Only