________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः] शारीरस्थानम्।
२००३ नात्मनः कारणाभावात् लिङ्गमप्युपलभ्यते। स सर्वकारणत्यागान्मुक्त इत्यभिधीयते ॥ विपापं विरजःशान्तं परमतरमव्ययम् । अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते ॥ १३ ॥ एतत् तत् सौम्य ! विज्ञानं यज ज्ञात्वा मुक्तसंशयाः। मुनयः प्रशमं जग्मुर्वीतमोहरजःस्पृहाः ॥ १४ ॥
तत्र श्लोको। सप्रयोजनमुदिष्टं लोकस्य पुरुषस्य च ।
सामान्यं मूलमुत्पत्तौ निवृत्ती मार्ग एव च । ब्रह्मभूतस्य जीवन्मुक्तस्य शुद्धस्य शुद्धसत्त्वस्य संयोगः संसारसंसरणहेतुधर्माधर्माभ्यां संयोगो न सम्पद्यते ॥१२॥
गङ्गाधरः-शरीरपरित्यागे तु ब्रह्मभूतस्यात्मनः कारणाभावान्मनःशरीराद्यभावात् लिङ्गं प्राणापानादि सुखदुःखादि च नोपलभ्यते। स पुरुषः सव्वकारणानां सत्त्वशरीरादीनां त्यागान्मुक्त इत्यभिधीयते। मुक्तेः पर्यायमाह-विपापमित्यादि ॥१३॥
गङ्गाधरः-अध्यायार्थस्य फलमाह-एतत् तदित्यादि । तदेतत् पुरुषविचय
ब्रह्ममूतस्य जीवन्मुक्तस्येति व्याख्येयम् । सर्वथा मुक्ते हि ज्ञानमपि नास्ति । तेन पश्यत इति न स्यात् । संयोग इति धर्माधर्मसम्बन्धः ॥ १२ ॥
चक्रपाणिः-अथ मुक्तात्मनः किं लक्षणमित्याह-नेत्यादि। आत्मन इति मुक्तात्मनः । करणाभावादिति मनःप्रभृतिकरणाभावात् । उक्त हि-"करणानि मनोबुर्बुिद्धिकर्मेन्द्रियाणि च" इति, मनःप्रभृत्यभावाच्च शरीराभावोऽप्यर्थलब्ध एव। सर्वाभावाचात्मनि किमपि लक्षणं नास्ति, स्वरूपेण चात्मातीन्द्रिय एव । तेन नात्माभावान्नोपलभ्यते, तल्लिङ्गानामभावादेव नोपलभ्यत इति भावः।
विपापमित्यादिना मोक्षस्वरूपप्रकाशकान् पर्यायानाह-यज ज्ञात्वेति ज्ञानं प्राप्येत्यर्थः। किंवा गुणप्रकाशकत्वात् ज्ञानमपि ज्ञेयं भवतीति बोद्धव्यम् । संग्रहे शुद्धसरवसमाधानमित्यनेन,
* करणाभावादिति चक्रः ।
For Private and Personal Use Only