________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००२
चरक-संहिता। पुरुषविषयशारीरम् यया नालम्बते किश्चित् सव्वं संन्यस्यते यया। याति ब्रह्म यया नित्यमजरं शान्तमक्षरम् ॥ ११॥ लोके वितत-8-मात्मानं लोकञ्चात्मनि पश्यतः। परावरदृशः शान्तिानमूला न नश्यति ॥ पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा। ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते ॥ १२ ॥
सम्पद्यते भवति। यया चाहङ्कारमभिमानाद्यहङ्कारकम्मे नोपैति । यया च कारणं पुनर्भवहेतु नोपास्ते। यया च किश्चिदपि नालम्बते। यया च सर्व संन्यस्यते। यया च ब्रह्म निर्वाणं याति प्रामोति। ब्रह्म तु नित्यम् अजरं शान्तमक्षरश्च। एषा च बुद्धिमहत्तत्त्वमुच्यते ॥११॥
गङ्गाधरः-ज्ञानस्यास्य निर्वाणसाधकत्वं दर्शयति-लोके इत्यादि। लोके जगति आत्मानं विततं पश्यतो जानतः पुसः आत्मनि च लोकं विततं पश्यतः परावरदृशः परं सर्चतः श्रेष्ठं ब्रह्म ततोऽवरं सर्वमिदं महदादिकं द्रष्टु' शीलं यस्य तस्य । तथा शान्तिनि त्तिर्ज्ञानमूला निरुक्तसत्यबुद्धिमूला न कदापि नश्यति। अस्याः शान्तेः फलमाह-पश्यत इत्यादि। सर्वावस्थासु जागरण-स्वम-सुषुप्तिषु सर्वदा अविच्छेदेन सर्वभूतानि समं पश्यतो
तया वर्तत इति साङ्खयः। नोपास्ते कारणमिति न सुखदुःखकारणं सेवते। नालम्बते किञ्चिदिति क्वचिदप्यास्थानं न करोति। संन्यस्यत इति सर्वत्रोदासीनो भवति । ब्रह्मति मोक्षः। विद्यासिद्धवादयश्च यद्यपि ज्ञानविशेषेऽपि प्रसिद्धाः, तथापीह प्रकरणात् तत्वज्ञानपरा एव ज्ञेयाः ॥ ११॥
. चक्रपाणिः-लोकविततमात्मानमिति लोकरूपमात्मानम्, तथा लोकञ्चात्मनि शरीरात्मरूपमेलकरूपे व्यवस्थितमिति शेषः। पश्यतः। परावरदृश इति परमात्मानम्, अवराज्यात्मन्यतिरिक्तानि प्रकृत्यादीनि यः पश्यति, तस्य परावरदृशः। 'ज्ञानमूला' इत्यनेन मोहमूलामस्थिरां शान्तिं निरस्यतीति ।
अथ जीवन्मुक्तस्य किमिति सुखदुःखहेतुधर्माधर्मसंयोगो न भवतीत्याह-पश्यत इत्यादि। पश्यत इति पश्यत एव परं न तु रज्यतो नापि द्विषत इत्यर्थः। ब्रह्मभूतस्येति
* लोकविततमिति चक्रः ।
For Private and Personal Use Only