________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः शारीरस्थानम् ।
२००१ ज्वलत्यात्मनि संरुद्धं तत् सत्त्वं संवृतायने । शुद्धः स्थिरः प्रसन्नार्दीिपो दीपाशये यथा॥ १०॥ शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः प्रवर्त्तते। विद्या सिद्धिर्मतिमेधा प्रज्ञा ज्ञानश्च सा मता ॥ यया भिनत्यतिबलं महामोहमयं तमः। सर्वभावस्वभावज्ञो यया भवति निस्पृहः ॥ योगं यया साधयते साडयः सम्पद्यो यया।
यया नोपैत्यहङ्कारं नोपास्ते कारणं यया ॥ ननु कुत्रभातीत्यत आह-ज्वलतीत्यादि। संवृतायने संवृतानि अयनानि श्रोत्रादीन्द्रियच्छिद्ररूपाणि वहिर्गमनकर्माणि यस्य तस्मिन्नात्मनि, तत् शुद्धसत्त्वं मनः संरुद्धं वहिरनिगच्छेत् अन्तःसंरुद्धं सत् ज्वलति दीप्यते। क इवेत्यत आहशुद्ध इत्यादि। दीपाशये प्रदीपसंरक्षणाधाने यदि संवृतच्छिद्रे दोपं स्थापयति तदा स दीपः शुद्धो धूमाद्याविलतारहितः सन् स्थिरो वातादिभिश्चाचश्चल: सन् प्रसन्नार्चिश्च सन् यथा प्रज्वलति तथा तत् सत्त्वमित्यर्थः ॥१०॥
गङ्गाधरः--ननु सत्त्वे शुद्ध किं स्यादित्यत आह-शुद्धत्यादि । शुद्धसत्त्वस्य शुद्धं सत्त्वं मनो यस्य तस्य पुरुषस्य, शुद्धा निर्मला सत्या च बुद्धिः प्रवर्त्तते, या च सा शुद्धा सत्या बुद्धिः सा विद्या सा सिद्धिः सा मतिः सा मेधा सा प्रशा सा शानञ्च मता। ननु कथं सा बुद्धिविद्यादिरुच्यते इत्यत आहययेत्यादि । यया शुद्धया सत्यया बुद्धया अतिबलम् अतिशयबलवत् महामोहमयं तमो भिनत्ति नाशयति योगी। यया च शुद्धया सत्यया बुद्धग्रा निस्पृहः सन् सर्वभावाणां स्वभावशो भवति। यया च बुद्धया योगं साधयते। यया च बुद्धया पुरुषः साङ्ख्यः सङ्ख्यया तत्त्वज्ञानेन वर्तते यः स साहाः ज्ञानावरकाणि भवन्तीति कृत्वा सूर्यस्यापि पञ्चैव ग्रहादयश्चावरका उक्ताः। ज्वलतीति केवलात्मज्ञानजनकत्वेन प्रकाशते । आत्मनि संरुद्वमिति हन्द्रियेभ्यो ब्यावृत्यात्मनियतम्। संवृतायन इति आत्मपभेऽपि संवृतेन्द्रियरूपच्छिद्रमात्मनि ज्ञेयम् । दीपाशयो दीपधारिका गृहं वा ॥१०॥
चक्रपाणिः-शुद्धसत्वमभिधाय तजन्यां मोक्षसाधनत्वेनात्यर्थोपादेयां सत्यां बुद्धि विविधैः उपयुक्तैः स्वरूपैराह-शुद्धत्यादि। महामोहोऽहमादि मिथ्याज्ञानम्। निस्पृह इति उपादित्सा. जिहासाशून्यः। योगमिति विषयव्यावृत्तस्य मनस आत्मन्येव परं योगम् । सङ्ख्या तत्त्वज्ञानम्,
२५१
For Private and Personal Use Only