________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०००
चरक-संहिता। [ पुरुषविषयशारीरम् कारणवद् दुःखमस्वमनित्यमित्यभ्युपगमः । सर्वप्रवृत्तिषु दुःखसंज्ञा, सर्वसंन्यासे सुखमित्यभिनिवेशः। एष मार्गोऽपवर्गाय, अतोऽन्यथा बध्यते। इत्युदयनानि व्याख्यातानि ॥॥
भवन्ति चात्र। एतैरविमलं सत्त्वं शुद्धापायैर्विशुध्यति । मृज्यमान इवादर्शस्तैलचेलकचादिभिः॥ ग्रहाम्बुदरजोधूम-नीहारैरसमावृतम् ।
यथार्कमण्डलं भाति भाति सत्त्वं तथामलम् ॥ कार्यम्। धातुभेदेन खड्मांसरसरक्तादिभेदेन शरीरावयवसंख्यान शरीरावयवानां ज्ञानं कार्यम्। सर्व कारणवद् दुःखमित्यभीक्ष्णं कार्यम् । सर्वमस्वमात्मव्यतिरिक्तं यदिदं किञ्चित् तत्सर्वमनित्यमित्यभ्युपगमः । सर्वप्रवृत्तिषु वेदोक्तविधिविहिताविहितेषु कर्मसु धमाधम्र्मसाधनेषु या या प्रवृत्तिस्तासु दुःखसंज्ञा दुःखत्वेन ज्ञानम्, सर्वसंन्यासे सर्वपरित्यागे सुखमिति द्वयमभिनिवेशः स च कार्यः। अतोऽन्यथा उक्तेभ्योऽमीभ्य आचार्याभिगमनादिभ्योऽज्यथा बध्यते बद्धो भवति पुरुषः । इत्युदयनानि निवृत्तावुपायाः ॥९॥
गङ्गाधरः-एषामुपायानां फलं वक्तुमाह-भवन्तीत्यादि। एतैरिति । एतैराचार्याभिगमनादिभिः सर्वः शुद्धापायैर्मनसः शुद्धरुपायैरविमलमनिम्मल सत्त्वं मनः शुद्धप्रति निर्मल भवति। क इवेत्यत आह दृष्टान्तम्-मृज्यमान इत्यादि । दृष्टान्तान्तरमाह-ग्रहेत्यादि । ग्रहो राहुकेतुरूप आच्छादकः । असमावृतं सम्यगनाच्छादितं तथामलं तद्वदमलं निर्मलं सत् सत्त्वं मनो भाति । नियमनमिति योजना। तेन आत्मापोन्द्रियादिविषयेभ्यो व्यावात्मनि मन्तव्यः। धातुभेदेन शरीरावयवसंख्यानमिति शरीरस्य रसमलस्नाय्वादिरूपतया ज्ञानम्। शरीरं हि रसमलस्नाय्वादि. रूपतया भाव्यमानं वैराग्यहेतुर्भवति, यथा-"मजनास्थ्ना रजसा प्लीहा यकृता शकृतापि च । पूर्णाः स्नायुशिरा याः स्युस्ताः स्त्रियश्वमैपेशिकाः ॥” इत्यादिका वैराग्यभावना। कारणवदित्यनेन नित्यात्मव्यतिरिक्त सर्वमनित्यं दर्शयति । कुःखमिति दुःखहेनुः। अस्वमिति आत्मव्यतिरिक्तम् अनात्मीया। सर्वसंन्यासेबिति सर्वप्रवृत्त्युपरमेषु ॥ ९ ॥ चक्रपाणि:-अविमलमिति क्रियाविशेषणम् । ग्रहो राह' । सत्त्वस्य पन्चैवेन्द्रियाणि
For Private and Personal Use Only