________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ] शारीरस्थानम् ।
१६६६ शीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वम् । शोक-दैन्य-द्वषमदमानलोभरागेाभयक्रोधादिभिरसम्बलनम्, ® अहङ्कारादिषूपसर्गसंज्ञा । लोकपुरुषयोः स्वर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिव्वेदः सत्त्वोत्साहः, अपवर्गाय धीधृतिस्मृतिबलाधान, नियमनमिन्द्रियाणां चेतसि, चेतस
आत्मन्यात्मनश्च, धातुभेदेन शरीरावयवसंख्यानमभीक्ष्णं, सर्व स्तुतिः प्रशंसा, गर्दा निन्दा, अवमानमवशा, तेषु क्षमिलमुदासीनता। यदि कश्चित् सत्करोसि तेन हृष्टो न स्यात्, यदि कश्चित् स्तौति तेनापि नाहादितः स्यात्, यदि कश्चिनिन्दति वावजानीते, न च ताभ्यां दुःखी स्यात्, न शोकाद्यसम्बलनं शोकादिसम्बलितसराहित्यम्। अहकारादिष्वभिमानादिषु उपसर्गसंज्ञा उपसर्गत्वेन ज्ञानम् । स्वर्गादिसामान्यावेक्षगं स्खलौके स्वर्गादिपूरुषेऽपि गर्भाधानादौ स्वर्गादि इत्येवमुक्तं यल्लोकपुरुषयोः सामान्यं तस्यावेक्षणं दर्शनम् । काय्यकालात्यये भयं मोक्षार्थमुपयुक्तकार्याणां कालवर्त्तने तदत्यये तदतीतत्वे भाविनि भयं विधेयम् । अनिर्बेद इति । वैराग्यादितो मनःखेदो निर्वेदः। योगारम्भे सततवैराग्यादिना मनःखेदो न कार्य्यः, किन्तु योगारम्भे सतत सत्त्वोत्साहो मनस उत्साहः। धीधृत्यादीनां चतुर्णामाधानं धारणं पोषणश्च । इन्द्रियाणां नियमनं शब्दाद्यर्थेभ्यो निवस्त्येन्द्रियाणां श्रोत्रादीनां चेतसि मनसि नियमनं धारण कार्यम् । चेतसश्च चिन्त्यादिभ्यो निवर्त्य स्वस्मिन्नेव चेतसि नियमनं धारणं कार्यम्। आत्मनश्च चिन्त्यसङ्कल्प्यादिशब्दादिविषयेष्विच्छाढे पसुखदुःखप्रयत्नबुद्धिभ्यो निवत्यैवात्मन्येव नियमनं धारणं निग्रहः कर्त्तव्यः। स्मृतिपूर्विका प्रवृत्तिरिति कोऽहम्, किमर्थ राग यागादिकमारभ्यते इत्यादि सर्तव्यमित्यर्थः। सत्कारः पूजा, सत्कारे रतुतो च सत्यामहृष्टत्वम् । यथा गर्दायामवमाने च समदर्शित्वम्, तथा सत्कारादिष्वपि ज्ञेयम् । क्षुधादिषु चानुवेगः क्षुधादिसहरवम् । असंवसनम् असंवासः। अहङ्कारादयोऽष्टाविहै वोक्ताः। उपसर्गसंज्ञेति अनर्थहेतुत्वभावना। लोकपुरुषयोः सर्गादिसामान्यावेक्षणमिति यथा इहैव लोकरुषयोरादिसर्गतः प्रकृतिसामान्यमुक्त, तथावेक्षणम् इत्यर्थः। कार्यकालात्ययभयमिति मोक्षानुगुणकत्तव्यस्य कालातिपातभयं करणीयम् । नियमनम् इन्द्रियाणां चेतसि इन्द्रियाणि वाह्यविषयनिवृत्तानि मनस्येव नियतानि कर्त्तव्यानि। चेतसः चिन्त्यादिविषयेभ्यो व्यावृत्तस्य परमात्मन्यात्मज्ञानार्थं नियमनं कर्त्तव्यम्। आत्मनश्शात्मनि
* असंवसनमिति चक्रः ।
For Private and Personal Use Only