________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४८
चरक-संहिता। । पुरुषविचयशारीरम् कौपीनं प्रच्छादनार्थं धातुरागनिक्सनं, कन्थासीवनहतोः सूचीपिप्पलकं, शौचाधानहेतोर्जलकुण्डिका, दण्डधारणं, मैक्ष्यचर्या) पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्न एवाभ्यवहारः, श्रमापनयनाथं शीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतोः कायनिबन्धनं, वनेष्वनिकेतनिवासः, तन्द्रानिद्रालस्यादिकर्मवजनं, सर्वेष्विन्द्रियार्थेष्वनुरागोपतापनिग्रहः, सुप्तस्थितगतप्रेक्षिताहार-विहार-प्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः, सत्कारस्तुतिगविमाननमित्वं, क्षुत्पिपासायासश्रमप्रच्छादनाथ परिधानार्थ कटिव्यतिरिक्ताङ्गाछादनार्थञ्च धातुरागनिवसनं गैरिकमृद्रञ्जितं कौपीनं वस्त्रचीरम् । तत्र परिधानाथं कौपीनमात्रं सागाच्छादनाथ कन्था कार्या। सुतरां कन्थासीवनहेतोः मूचीपिप्पलकं सूचीरक्षणार्थ फलकोषादिरूपं पात्रम् । शौचश्चाधानश्च तयोहेतोः शौचाधानहेतोर्जलकुण्डिका जलकमण्डलुः, आधानं स्खलनरक्षा तदर्थ दण्डधारणम्, भैक्ष्यचर्यार्थ पात्रं स्थाली, एककालं नाधिकवारमग्राम्यो ग्राम्याहार ओदनपूपम्पमांसमत्स्यदधिघृतदुग्धपायसादिस्तव्यतिरिक्तः फलमूलरूपः यथोपपन्नः यदृच्छया यल्लभ्यते तदभ्यवहारः। शीर्ण यदृच्छया गलितं शुष्क पर्ण तृणश्च तत्. कृतास्तरणोपधानमास्तरणं शय्या उपधानं शिरोऽधः कृतपिण्डिताकारः। कायनिबन्धनम् योगासनम्। वनेषु न तु ग्रामादिषु अनिकेतवासः कुटीरादिनिकेतनहीनवासः वृक्षादितलादौ वासः । इन्द्रियार्थेषु शब्दादिषु अभीष्टेष्वनुरागः अनभीष्टेषपतापस्तयोनिग्रहः। तर्हि किमनभीष्टेष्वनुराग उपतापोऽभीष्टेष्विति चेन्न। इष्टानिष्टेष्वर्थेष्वनुरागोऽपि न कार्य इत्यर्थात् । सुप्तादिष्वारम्भेषु स्मृतिपूर्विका न तु यथाकथञ्चित् प्रवृत्तिः, सत्कारः पूजनं अकार्य्यताबुद्धिस्तथा सर्वप्राणिषु कर्त्तव्या । असङ्कल्पनमित्यभावनम् । प्रच्छादनार्थं कटिवेष्टनार्थम् । किंवा कौपीनार्थं प्रच्छादनार्थञ्च। सूचीपिप्पलकं सूचीस्थापनपात्रम्। भैक्ष्यचर्या पात्रं भिक्षापात्रमित्यर्थः। प्राणयात्रार्थमित्यनेन यावन्मात्रेणाहारेण प्राणयात्रा भवति, तावन्मात्र आहारः कर्त्तव्यः, न तु रागादिति दर्शयति। एवं श्रमापनयनार्थमित्यादावपि तावन्मात्रप्रयोजनता व्याख्येया। कायनिबन्धनं योगपट्टम् । अनिकेतवास इति अगृहवासः। एतेन वनेऽपि न गृह कृत्वा स्थातव्यमिति दर्शयति । इन्द्रियाथषु गन्धादिषु अनुरागस्य तथोपतापस्य द्वापरूपस्य
For Private and Personal Use Only