SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "म अध्यायः] शारीरस्थानम् । १९६७ तत्र छ मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्, अग्नेरेवोपचा , धर्मशास्त्रानुगमनं, तदर्थावबोधस्तेनावष्टम्भः, तत्र यथोक्ताः क्रियाः। सतामुपासनम्, असतां परिवर्ज़नं, न सङ्गतिर्दुजनेन, सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनम्, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणम् असंकल्पनमप्रार्थनाऽनभिभाषणश्च स्त्रीणाम्, सर्वपरिग्रहत्यागः मुमुक्षूणां बन्धान्मोक्तुमिच्छूनामुदयनानि चानुव्याख्यास्यामः निवृत्तावुपाया. ननुव्याख्यास्याम इति। तद् यथा-तत्रेत्यादि। तत्र सर्वबन्धेभ्यो मोक्तुमिच्छोमुमुक्षोरादितः प्रथमत आचार्याभिगमनम्। यः कात्न्येन मोक्षोपायानुपदेष्टु प्रभवति तमाचार्यमुपगम्य मुमुक्षुस्तस्याचाय्यस्य मोक्षे य उपदेशस्तस्यानुष्ठानं कर्मकरणम् । मोक्षायाचार्यण यदुपदेष्टव्यं तदुपदिष्टस्य कर्मणोऽनुष्ठानमाचरणम् । अग्नेरेवोपचा। वैतानिकवैवाहिकस्याग्नेरेवोपचर्या सेवा। धर्मशास्त्रानुगमनं मन्वादिस्मृतिशास्त्रानुगतकर्माकरणम् । तदर्थावबोधो धर्मशास्त्रार्थस्यावबोधः गुरुणा व्याख्यातस्यार्थस्य धारणम् । तेन धर्मशास्त्रार्थधारणेनावष्टम्भः चित्तावरुद्धता। ततस्तत्र धर्मशास्त्रार्थता क्रियाचा। ततः सतामुपासनं वजनश्चासतामसाधूनां पुरुषाणां विशेषेण दुर्जनेन सह सङ्गतिः सङ्गो न विधेया। सत्यं वचनं वक्तव्यं, न चाहितं न वा कस्यचिद्धितं कस्यचिदहितं परन्तु सर्वभूतहितं न चापि परुषं न निष्ठरम्, अनतिकाले वाक्यकालमनतिक्रम्य पुरुषं सत्पुरुषमेव लक्षीकृत्य काले वाक्यप्रयोगार्हसमये न खकाले परीक्ष्य यद्वचनं यदुपयुक्तं तथा रूपेण परीक्ष्य वचनं वक्तव्यमित्यर्थः। अवेक्षा दृष्टिः, सा च समा न तु विषमा। सर्वासां स्त्रीणामस्मरणं स्मृतिः पूर्वानुभूतासम्प्रमोषः, असङ्कल्पनं मनसा चिन्तादिक्रियावर्जनम्, अपार्थनमयात्रा अनभिभाषणश्च । स्त्रीणामित्यनेन सर्वत्रान्वयः। ततः सवौं भोजनाद्यर्थपरिग्रहस्तस्यापि त्यागः । इति हेतुगर्भविशेषणम् । तेन नित्यं दुःखाक्रान्तलोकदर्शनाट विरक्तस्य सत इति दर्शयति । भाचार्य इह मोक्षशास्त्रोपदेष्टा। तेनावष्टम्भ इति शास्त्रावबोधेन धैय्ये करणीयम्, मनागपि तत्र कथन्ता न कर्त्तव्या इत्यर्थः। यथोक्ता क्रिया कर्त्तव्या इति शेषः। आत्मनीवावेक्षा चेति यथा आत्मनि * लोकदोषदर्शिन इत्यधिक क्वचित् पठ्यते । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy