________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६६
चरक-संहिता। ! पुरुषविचगशारीरम् संशयोऽभिप्लुतबुद्धिरभ्यवपतितोऽन्यथादृष्टिविशेषग्राही विमार्गगतिर्निवासवृक्षः सत्त्वशरीरदोषमूलानां मूलं सव्वदुःखानां भवति। एवमहङ्कारादिभिदोषैः भ्राम्यमाणोनातिवर्त्तते प्रवृत्तिम, सा मूलमघस्य। निवृत्तिः अपवर्गस्तत् परं प्रशान्तं तदक्षरं तद् ब्रह्म स मोक्षः॥८॥
तत्र मुमुक्षूण मुदयनानि च सोण्यनुव्याख्यास्यामः। हीनः सन्नहङ्काराभिनिविष्टः संसक्तसंशयोऽभिप्लुतबुद्धिरभ्यवपतितश्चान्यथादृष्टिश्च विशेषग्राही विमागेगतिश्च सन् सत्त्वशरीरयोदोषाणां रजस्तमोवातपित्तकफानां मूलानि यान्यसात्म्येन्द्रियार्थसंयोगप्रशापराधपरिणामाख्यानि निदानानि तेषां मूलं कारणं भवति सर्वदुःखानाश्च मूलं भवति । अथवा सत्त्वशरीरदोषा मूलानि येषां तेषां सव्वदुःखानां मूलं भवति। कथमित्यत आह-एवमित्यादि। एवमनेन प्रकारेण पुमानहङ्कारादिभिर्दोषैर्धाम्यमाणः प्रत्तिं वाङ्मनःशरीरारम्भं नातिवर्तते। सा प्रवृत्तिरघस्याशुभस्य मूलम् । इति किंमूला प्रवृत्तिरिति प्रश्नस्योत्तरमुक्त्वा निवृत्ती वोपायः क इत्यस्योत्तरमाह-निवृत्तिर्वाङ्मनःशरीरानारम्भः खल्वपवर्गोऽपवर्गजनकखादिति या सा निःशेषा नित्तिस्तत् परं प्रशान्तं तदक्षरं तद ब्रह्म ब्रह्मरूपेणाभिनिष्पत्तिहेतुवात् । स मोक्ष इति सर्वेभ्यो बन्धेभ्यः प्रमोचनहेतुवात् ॥८॥
गङ्गाधरः-निवृत्तिमुक्त्वा तत्रोपायान् वक्तुमाह-तत्रेत्यादि। तत्र निवृत्ती विशेषाप्रतीतिः। विप्रत्ययस्तु विशेषाणां विपर्यायेण ग्रहणमिति भेदः । प्रोक्षणेत्यादिना अनुपायमाह । अनुपाया इति अन्योपायाः सन्तोऽपि परमपुरुषार्थे मोक्षे अनुपायाः। निःसवनं त्रिः सम्यक् स्नानम्। सम्प्रति अहङ्कारादीनां धीतिस्मृतिविभ्रंशमूलत्वेनाधीतिस्मृत्यभिधानपूर्वक संसाररूपनित्यानुबन्धशरीरमानसःखकारणत्वं व्युत्पादितम् । अहङ्कारादीन् संक्षिप्याप्याह-एवमित्यादिना। निवासवृक्ष इव निवासवृक्षः। तेन यथा निवासवृक्षः पक्षिणां नित्यमाश्रयो भवति, एवमहङ्कारादियुक्तोऽपि रोगस्य निवासो भवतीति दर्शयति। भ्राम्यमाण इति पुनःपुनरपि शरीरान्तराणि नीयमानः। नातवर्त्तते प्रवृत्तिमिति संसारं न त्यजति । एवं मोहेच्छाजन्यकर्ममूलतां प्रवृत्तेर्दर्शयिरवा प्रवृत्तेरपि कर्मकारणतामाह-सा च मूलमघस्येति । प्रवृत्तिरपि धर्माधर्मरूपस्य मूलम् । इह च धर्माधर्मावविशेषेण संसारदुःखकारणतया 'अघ'शब्देनोक्तौ। सम्प्रति निवृत्तावुपायं वक्तु निवृत्तिमेव तावदुपादेयताप्रतिपादकपर्यायैराह-निवृत्तिरित्यादि ॥ ८॥
चक्रपाणिः- उदित्यर्थे मोक्ष इति, उदयनानि हि मोक्षोपाया इत्यर्थः। लोकदोषदर्शिन
For Private and Personal Use Only