________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम अध्यायः }
१६६५
शारीरस्थानम् । कर्मफलमोच पुरुषप्रत्यभावादयः सन्ति न वेति संशयः । सर्व्वास्ववस्थासु अनन्योऽहमहं स्रष्टा स्वभावसंसिद्धोऽहमहं शरीरेन्द्रियबुद्धिस्मृतिविशेष राशिरिति ग्रहणमभिसंप्लवः । मम मातृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्याहमित्यभ्यवपातः । कार्याकार्थ्यहिताहितशुभाशुभेषु विपरीताभिनिवेशो विप्रत्ययः । ज्ञाज्ञयोः प्रकृतिविकारयोः प्रवृत्तिनिवृत्त्योश्च असामान्यदर्शनं विशेषः । प्रोनणानशनाग्निहोत्रत्रिः सवनाभ्युच गावाहनयजनयाजनयाचनसलिलहुताशनप्रवेशनादयः समारम्भाः प्रोच्यन्ते ह्यनुपायाः । एवमयमधीधृतिस्मृतिरहङ्काराभिनिविष्टः संसक्तयद्यन्मनोवाक्कायक नापवर्गाय क्रियते स सङ्गः, यद्यदपवर्गाय कर्म तत् तन्न सङ्गः । कर्मफलमस्ति न वा मोक्षोऽस्ति न वा पुरुष आत्मास्ति न वेत्येवमादिज्ञानं संशयः । सर्व्वावस्थासु अहमनन्यो ब्रह्मणोऽन्यो नाहमहं स्रष्टादं स्वभावसंसिद्ध एवाहं शरीरादिमान् राशिरिति ज्ञानमभिसंप्लवः । ममेयं मातायं पितेत्येवमादिज्ञानमभ्यवपातः । कार्य्यादिषु विपरीताभिनिवेशो विप्रत्ययः । शाशयोर्विद्वन्मूर्खयोः सामान्यादर्शनं प्रकृतिविकारयोश्च प्रवृत्तिनिवृत्त्योश्चैवमादिद्वन्द्वयोः सामान्यादर्शनं विशेष इति । प्रोक्षणानशनाग्निहोत्रादयः समारम्भाः कर्माणि स्वर्गौपाया अपि मोक्षेऽनुपायाः प्रोच्यन्ते । इत्येवमयं पुरुषः खलु धीधृतिस्मृतिउत्कृष्टोऽहमिति ज्ञानमहङ्कारः । यदित्यादि सङ्गविवरणम् । कर्मफलादयः सन्ति न वेति यज् ज्ञानं तत् संशयः । अभिसंप्लवमाह - सर्वेत्यादि । (आत्मनोऽभिमत आत्मना आत्मन्यभिसंप्लव आत्मना आत्मगोचरता आत्मबुद्धिरित्यर्थः । ) सर्व्वावस्थास्थिति सर्व्वासु शरीरावस्थासु ज्ञातसमुदायरूप एवाहमस्मीति यज् ज्ञानम् तदिह ज्ञेयम् । परमात्मनस्तु सर्व्वावस्थाशून्यत्वमिति यज् ज्ञानं तत् सम्यग्ज्ञानमेव । एवमहं स्रष्टाहं स्वभावसंसिद्ध इत्यत्रापि शरीरवान् एवाहङ्कारविषयो ज्ञेयः । अहं शरीरेन्द्रियबुद्धिविशेषराशिरित्यत्र शरीरादिष्वचेतनेष्वहङ्कारास्पदत्वेन चेतनाभिमानो विरुद्ध इति ज्ञेयम् । ममेत्यादिना अभ्यवपातमाह- अभ्यवपातः परात्मता, अनात्मीयेन ममता, कार्येत्यादिना विप्रत्ययं ब्रूते । विपरीताभिनिवेशो विपर्य्ययेण ज्ञानम्, यथा - कार्ये अकार्य्यमका कार्य्यमित्यादि । ज्ञाज्ञयोरित्यादिना अविशेषमाह - अविशेषः
,
* सामान्यदर्शनमविशेष इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only