________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६४
चरक-संहिता। [ पुरुषविचयशारीरम् अथाग्निवेश उवाच, किंमूला भगवन् प्रवृत्तिः, निवृत्तौ वोपाय इति ॥७॥
भगवानुवाच । मोहेच्छा षकर्ममूला प्रवृत्तिः । तज्जा ह्यहकारसङ्गसंशयाभिसंप्लवाभ्यवपात - विप्रत्ययविशेषानुपायास्तरुणमिव द्रुममतिविपुलशाखास्तरवोऽभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ते, यैरभिभूतो न सत्तामतिवर्तते। तत्रैवं जातिरूप-वित्त-बुद्धि-शील-विद्याभिजन-वयो-वीर्य-प्रभावसम्पन्नोऽहमित्यहङ्कारः। यन्मनोवाक्कायकर्म नापवर्गाय, स सङ्गः। हेतुः सर्वलोकसामान्यस्यात्मनि ज्ञानम्। एतज् ज्ञानमेव लोकपुरुषयोः सामान्योपदेशस्य प्रयोजनमिति ॥५।६॥
गङ्गाधरः-तत् श्रुखा यदुवाच तदाह-अथेत्यादि। प्रवृत्तिः किंमूला निवृत्तौ क उपाय इति ॥७॥
गङ्गाधरः-तदुत्तरमाह-भगवानित्यादि। मोहादिचतुम्मूला प्रवृत्तिः। मोहादयो हि ज्ञातारं प्रवत्तयन्ति पुण्य पापे वा । पुण्यपापश्च कर्म प्रवर्तयति। कथमित्यत आह--तज्जा हीत्यादि। मोहादिभ्यो जायन्तेऽहकारादयः । ततः किं स्यादित्यत आह-तरुणमिवेत्यादि। मोहादिजा अहङ्कारादयः खल्वतिविपुलशाखास्तरवो यथा तरुणं द्रुममभिभूयावतत्योत्तिष्ठन्ते तथा पुरुषमभिभूयावतत्योत्तिष्ठन्ते। यौहादिजैरहङ्कारादिभिरभिभूतः पुरुषो न सत्तां प्रवृत्तेहेतुमतिवर्त्तते नातिक्रामति। अहङ्कारादिः पुनः कीदृश इत्यतस्तान विवृणोनि:-तत्रैवमित्यादि। जातिरूपादिसम्पन्नोऽहमित्यभिमानोऽहकारः । पूर्वप्रत्यवमर्षकम् । एतस्मिन् सत्यज्ञाने लोकपुरुषसामान्यज्ञानस्य हेतुत्वं दर्शयन्नाहतस्येत्यादि ॥५॥६॥
चक्रपाणिः-प्रवृत्तः संसाररूपायाः तथा निवृत्तेर्मोनरूपायाः कारणमुपायञ्च पृच्छति--किं. मूलेत्यादि। मोहेत्याधत्तरम्। मोहेच्छाद्व षकर्ममूलेति मोहास्मिथ्याज्ञानस्वरूपादिच्छाद्वेषौ, तयोश्च धर्माधर्मरूपं कर्म, तच्च मूलं संसारस्येत्यर्थः। कथमेते मोहादयः संसारकारणमित्याहतज्जा होत्यादि। अत्र चाहद्वारादौ यथायोग्यतया मोहादीनां कारणत्वं ज्ञेयम्। अहङ्कारादयश्चाष्टावने वक्ष्यमाणा ज्ञेयाः। अवतत्येति व्याप्येति । न सत्तामतिवर्त्तते इति प्रवृतिहेतु नातिकामति । अत्रोक्तमहङ्कारं विवृणोति-तत्रैवमित्यादि। जात्यादिभिः प्रभावान्तः सम्पन्न
For Private and Personal Use Only