________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६२
चरक-संहिता। पुरुषविचयशारीरम् ___ एवंवादिनं भगवन्तम् आत्रेयमग्निवेश उवाच, एवमेतत् सर्वमनपवादं ययोक्तं भगवता लोकपुरुषयोः सामान्यम् । किन्वेवास्य सामान्योपदेशस्य प्रयोजनमिति॥५॥ ___ भगवानुवाच, शृण्वग्निवेश! सर्वलोकमात्मन्यात्मानश्च सर्वलोके सममनुपश्यतः सत्या बुद्धिरुत्पद्यते। सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदुःखयोः कर्त्ता नान्य इति कात्मकत्वाच्च। हेत्वादिभिरयुक्तः सर्वलोकोऽहमिति विदित्वा ज्ञानं पूर्वमुत्थाप्यते अपवर्गाय। तत्र संयोगापेक्षी चेतोऽर्पणनिगदात् । तथा हि दर्शनम्-भूम्यादिपादव्यपदेशाच्चैवमिति । इत्येवं लोकपुरुषयोदेहप्रदेशविभागवस्तुविभागाभ्यां सामान्यमुक्तमिति ॥४॥
गङ्गाधरः--एतत् श्रुखा यदुवाच तदाह-एवंवादिनमित्यादि। किनु अस्येत्यादि प्रश्नः । भगवानुवाचेति तदुत्तरम् । तद् यथा-सर्वलोकमित्यादि। यदि लोकपुरुषयोः सामान्यं नोपदिश्यते तर्हि कथमग्निवेश ! सममनुपश्यतः सत्या बुद्धिरुत्पद्यत इत्यादि। कस्मादित्यत आह--सर्चलोकमित्यादि । आत्मैव सुखदुःखयोः कर्ता नान्य इति बुद्धा किं स्यादित्यत आह-कात्मकखाच्चेत्यादि। सुखदुःखयोः कर्ताहमिति कात्मकखात् तु हेतु भिधर्माधर्मादिभिः कर्मजातैरयुक्तः सन् सर्चलोकोऽहमिति विदिखापवर्गाय ज्ञानपूर्व जनेन
चक्रपाणिः-अनपवादमित्यव्यवधानम्। किन्त्वस्येत्यादि। आयुर्वेदे किमप्येतत्साम्यकथने प्रयोजनमित्यर्थः । कथं सत्या बुद्धिरुत्पद्यते इति अस्यां योजनायां किञ्चास्याः प्रयोजनमिति शेषो ज्ञेयः। यथा च लोकपुरुषसाम्यं सत्यबुद्धिजनकं भवति, तदाह-सर्वलोकं हीत्यादि । आत्मनि पश्यत इति आत्मनोऽभेदेन पश्यतः। 'आत्म'शब्देन पढ़ धातुसमुदायात्मकः पुरुष इहोच्यते। तेन यतकिञ्चिल्लोकगतं सुखदुःखजनकम्, तदप्यात्मस्वरूपमित्यनेन वाह्यलोकमूतमपि भात्मकृतमेव वैषयिक नित्यदुःखानुयुक्तं हेयं सुखम्, तथा निसर्गाव यं दुःखञ्च पश्यन् राग. द्वषनिम्मुक्तः सन् सत्यशानवान् भवतीति भावः। अथ सत्यज्ञानस्यापि किं प्रयोजनमित्याह-.. कर्मेत्यादि। लोकपुरुषसाम्यज्ञानेऽपि सत्यज्ञानस्यादावपवर्गानुष्टानं प्रयोजनमिति वाक्यार्थः । अन्न करात्मकत्वात् इति कर्माधीनत्वात्, हेत्वादयोऽग्रे वक्ष्यामाणाः । कर्मवशः सन् हेत्वादिभियुक्तो. ऽयमात्मा प्रवर्तते, कर्म, तत्वज्ञानात् प्रवृत्तुपपरमे सति कारणाभावानोपपद्यते। उक्तञ्च-“कर्म
* हेत्वादिभियुक्त इति चक्रः ।
For Private and Personal Use Only