________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः शारीरस्थानम्।
१६६१ पुरुषादाकाशः। यो वै स वहिः पुरुषादाकाशोऽयं वाव स योऽयमन्तःपुरुषे आकाशः । यो वै सोऽन्तःपुरुष आकाशोऽयं वाव स योऽयमन्तर्ह दय आकाशः । यो वै सोऽन्तर्ह दय आकाशस्तदेतत् पूर्णमप्रवर्त्ति । पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेदेति। तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः। स योऽस्य पाङ् सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत् तेजोऽनाद्यमित्युपासीत । तेजस्यन्नादो भवति य एवं वेदेति । १। अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छोत्रं स चन्द्रमाः। तदेतच्छीश्च यशश्चेत्युपासीत। श्रीमान् यशस्वी भवति य एवं वेदेति । २। अथ योऽस्य प्रत्यङ् सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद् ब्रह्मवर्चसमन्नाद्यमुपासीत । ब्रह्मवर्चस्यन्नादो भवति य एवं वेदेति । ३। अथ योऽस्योद मुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत् कीर्तिश्च व्युष्टि३चत्युपासीत । कीर्तिमान् व्युष्टिमान् भवति य एवं वेदेति ।४। अथ योऽस्योद्ध: सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीत। ओजस्वी महान् भवति य एवं वेदेति । ५। तत्र ते पश्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः। स य एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद, अथास्य कुले वीरो जायते। प्रतिपद्यते स्वर्ग लोकं य एतानेव पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान वेदेति । ३ । अथ यदतः परो दिवो ज्योतिर्दीप्यतेऽपि स्वतः पृष्ठेष सर्वतः पृष्ठेष्वनुत्तमतमेष लोकेषु। इदं वाव तद् यदस्मिनन्तःपुरुषे ज्योतिः। तस्यैषा दृष्टियंदवैतस्मिञ्छरीरे संस्पर्शनोष्मिमाणं विजानाति । तस्यैषा श्रुतिः। यत्रतत् कर्णावपि गृह्य निनदमिव नदथुमिवाग्नेरिव ज्वलन उपशृणोति। तदेतद् दृष्टश्च श्रुतञ्चेत्युपासीत। चक्षुष्यः श्रुतो भवति य एवं वेदेति । ४ । अत्र ब्राह्मणे पादोऽस्य विश्वा भूतानीत्यनेनोक्तौ द्वौ पादौ या वै सा गायत्रीत्यारभ्य नातिशीयन्त इन्यन्तेन व्याख्यातौ। तत्रादान नातिशीयन्त इत्यन्तेन प्रथमो भूपादः। द्वितीयेन नातिशीयन्त इत्यन्तेन हृदयं भुवःपादो द्वितीय इति। त्रिपादस्यामृतं दिवीत्यनेनोक्तौ द्वौ पादौ गायत्रयाः सैषा चतुष्पदेत्यादिना व्याख्यातौ। तत्र द्वारपान वेदैत्यन्तेन दुपादस्तृतीयो व्याख्यातः। अथ यदतः पर इत्यादिनामृतपादश्चतुर्थी व्याख्यातः। इति चतुष्पादा सैषा गायत्री। पड़ विधा वागरूपा खल्ववर्णा प्रकृतिरेका ब्रह्म प्रजापतिं प्रति दर्शनयोग्यार्था वर्णवत्यः पञ्चधा। श्वेता रक्ता पीता कृष्णा अघोरा चेति षड़ विधा। चेतोऽर्पणनिगदादुक्ता न तु वस्तुत इति । शारीरकसूत्रैश्चोक्तम् । ज्योतिश्चरणाभिधानात् । छन्दोऽभिधानान्नेति चेत्र
For Private and Personal Use Only