________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६०
चरक-संहिता। [पुरुषधिचयशरीरम् चाविद्या च तानि सर्वाणि न ततोऽतिरिक्तानि तात्स्थादिति । तत्परमव्योम तान्यारणोत् । एवमस्य पुरुषस्य नाभेरुर्दू, कण्ठपर्यन्तो भुवलौकस्तत्र हृदि ये पञ्च प्राणाः पश्चब्रह्मपुरुषास्ते ततो नातिरिक्ता इष्यन्ते अतात्स्थात् । इत्येवमष्टलोकात्मकभूमिलोकसहितं कौमारलोकात्मकभुवर्लोक सर्वतो वृत्त्वासौ परमव्योम परमपुरुष ऊर्द्ध दशाङ्गुलमनाटतत्वेनातिशयेन आशिरोग्रीवं स्वीकोऽतिष्ठदिति । तथास्य पुरुषस्यापि शिरोग्रीवं दशाङ्गुलमुत्तमाङ्गत्वेनातिष्ठदिति। तदुक्तं पुरुषसूक्त। “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सभूमि सर्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् ॥” इति। सभूमि भूमिलोकसहितं भुवलॊकं सर्वत ऊर्ध्वाधश्चतुर्दिशं बहिराभ्यन्तरश्चात्य दशाङ्गुलं वपुरतिशयेनानावरणेनातिष्ठदिति। तथा तत्रैव पुरुषमूक्ते “एतावानस्य महिमा ततो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” इति यदुक्तम्, तत्र पाद इति औस्थाने सुश्छन्दसि। पादावित्यर्थः । विश्वा इति जसौड़ाश्छन्दसि। एतावानस्य त्रिपादस्य पुरुषस्य महिमा महत्त्वमस्य त्रिपादस्य द्वौ पादौ भूपादभुवःपादौ विश्वानि भूतानि। दिवि तृतीये पादे खलौके शिरोग्रीवे दशाङ्गुलेऽमृतं ज्योतिःस्वरूपं ब्रह्म वागरूपा गायत्री चतुर्थः पाद इति। तदमृतं पुरुषस्याप्यस्य मूर्छि, ब्रह्मरन्ध सहस्रदलपद्मकणिकाभ्यन्तरे वर्त्तते इति त्रिलोकसम्मितः पुरुष इति। ननु च्छान्दोग्योपनिषदि चानयर्चा वस्तुत्वेन लोकपुरुषयोरैक्यं व्याख्यातम्। तद यथा--गायत्री वा इदं सर्च भूतं यदिदं किश्च । वाग्वै गायत्री। वाग्वै सर्व गायति च त्रायते च। या वैसा गायत्री। इयं वाव सा येयं पृथिवी। अस्यां हीदं सर्वभूतं प्रतिष्ठितमेतामेव नातिशीयते। या वै सा पृथिवी इयं वाव सा यदिदमस्मिन् पुरुषे शरीरमस्मिन हीमे भावाः प्रतिष्ठिता एतदेव नातिशीयन्ते इति । १। या वैसा गायत्री। इयं वाव सा यद्वैतत् पुरुषे शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते । यदवैतत् पुरुषे शरीरमिदं वाव तत् यदिदमस्मिन्नन्तःपुरुषे हृदयमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । २ । सैषा चतुष्पदा षड़ विधा गायत्री। तदेतदृचाभ्यनक्तम्। एतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीति ।३। या वै सा गायत्री इयं वाव सा यद् वैतद् ब्रह्मेति। यद् वैतद् ब्रह्म । इदं वाव तदयोऽयं वहिः पत्यादिरूपता आगमसिदैव ज्ञेया। सर्वेन्द्रियार्था विश्वेदेवा एव। सर्गादिरिति प्रलयानन्तरः कालः । अनुक्तानामित्यनेन मतिवृहस्पतिः, कामो गन्धर्व इत्यादि । सामान्यं तुल्यम् ॥२-४॥
For Private and Personal Use Only