SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः ] शारीरस्थानम् । १९८७ __ इत्येवं वादिनं भगवन्तमात्रेयमग्निवेश उवाच। नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे। भगवता बुद्धया भूयस्तरतमतोऽनुव्याख्यायमानं शुश्रूषामहे इति ॥३॥ तमुवाच भगवानात्रेयः । अपरिसंख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अध्यपरिसंख्येयाः। यथा यथा प्रधानश्च तेषां यथास्थलं पुरुषावयवविशेषाः कतिचित् तेषां सामान्यमभिप्रेत्योदाहरिष्यामः; तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश! षड़, धातवः समुदिता लोक इति शब्द लभन्ते। तद यथा-पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमित्येत एव च षड़ धातवः समुदिताः पुरुष इति शब्द लभन्ते । गङ्गाधरः-इत्येवमित्यादि तत् श्रुखाग्निवेश उवाच-नैतावतेत्यादि ॥३॥ गङ्गाधरः-तमुवाचात्रेयः अपरिसङ्के प्रया इत्यादि। तान् लोकपुरुषयोः समानान् कतिचिदवयवविशेषान्। अनुत्तमतमेषु त्रिषु लोकेषु प्रथमं लोकमाह - पड़ धातव इत्यादि । तद्यथेति। पृथिवीत्यादि-येयं पृथिवी तस्या दशगुणा आपस्तां परित आवृत्त्य वर्तन्ते। अपश्च ताः परितो दशगुणं तेज आकृत्य वर्त्तते। तेजश्च दशगुणो वायुरावर्त्य वर्त्तते । वायुमपि चाकाशो दशगुण आकृत्य वर्तते । आकाशश्चाहकारो दशगुण आटत्त्य वर्तते । तश्चाहकारमभितो दशगुणो महानावृत्य वत्तते। महान्तञ्चाव्यक्तमात्मा ब्रह्म दशगुणमात्य वत्तते इत्येवमहङ्कारमहयामुपलक्षितमव्यक्तं ब्रह्मेह विवक्षितमित्येत एव षडूधातवो यथा लोक इति शब्दं ( अनुत्तमतमाष्टलोकी भूलोकशब्द) लभन्ते तथा खल्वेते एव षडूधातवः समुदिताः पुरुष इति शब्दं लभन्ते। कथं पुरुषः पृथिव्यादि बुद्धयानुव्याख्यायमानमिति योजना। लोकस्य तरुतृणपश्वादिरूपा अवयवाः तथा पुरुषस्य च स्नायुकण्डराधमन्यादिरूपा अवयवा अपरिसंख्येयाः। तेन अकास्नयाभिधानम् । अतो ये ये लोकपुरुषयोः स्थूला अवयवाः, ते ते सामान्यप्रतिपादनार्थमुच्यन्त इति वाक्यार्थः। ब्रह्मणो For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy