________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः पुरुषश्चियं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ पुरुषोऽयं लोकसम्मित इत्युवाच भगवान् पुनर्वसुरात्रेयः। यावन्तो हि मूर्तिमन्तो लोके भावविशेषास्तावन्तः पुरुष, यावन्तः पुरुषे तावन्तो लोके ॥२॥
गङ्गाधरः-अतः पूर्वाध्यायेऽभिहितमेवमयं लोकसस्मितः पुरुष इति । तस्य प्रपश्चाथेमतोऽनन्तरं पुरुषविचयं शारीरमारभते--अथात इत्यादि। पुरुषं विशेषेण चिनोत्यस्मिन्ननेन वेति पुरुषविचयमधिकृत्य कृतं शारीरमिति ॥१॥
गङ्गाधरः-पुरुषस्य विचयोऽयम् पुरुषोऽयं लोकसम्मित इति । अयमन्नमयः पुरुषः खलु लोकसम्मितः। लोकस्वनुत्तमतमो भूभुवस्वरिति त्रिलोकरूपः परमव्योम परमात्मा परमपुरुषः। कुतोऽयं लोकसम्मितस्तदाह--- यावन्तो हीत्यादि। हि यस्माल्लोके यावन्तो मूर्तिमन्तो भावविशेषाः सन्ति तावन्तः पुरुष वर्तन्ते, तथा यावन्तो भूर्तिमन्तो भावविशेषाः पुरुषे वर्तन्ते तावन्तो लोकेऽपीति । पुरुषे यावन्तस्तावन्तो लोके सन्तीति पुनवेचनेन लोके यन्न दृश्यते पुरुष तु दृश्यते तदपि पुरुषस्थभावेनानुमेयमिति ख्यापितम् । तेन स्वाङ्गुलिमानेन यथा चतुरशीत्यङ्गुलिमितः पुरुषस्तथा तस्याङ्गुलिमानेन लोकोऽपि चतुरशीत्यङ्गुलिमित इति लोकसम्मितः पुरुषः पुरुषसम्मितश्च लोक इति। मूर्तिमन्त इति शिष्यबोधार्थ स्थूलत उक्तम् । वस्तुतो यावन्तो भावा लोके तावन्तः पुरुषे, यांवन्तः पुरुषे तावन्तो लोके मूर्तिमन्त इति वचनेनामूर्तानां प्रतिषेधाभावात् ॥२॥
चक्रपाणि:---पूर्वाध्यायेऽभिहितं “यावन्तो हि लोक भावास्तावन्तः पुरुषे” इति, तच्च न प्रपञ्चितं बहुवाच्यत्वात्। अतः प्रपञ्चाभिधानार्थ पुरुषविचयं बसे । पुरुषविचयनं लोकसामान्येन गणनं पुरुषविचयः, तमधिकृत्य कृतोऽध्यायः पुरुषविचयः ॥ १॥
चक्रपाणिः-सम्मितस्तुल्यः। लोकसम्मितत्वमेव विभजते-यावन्तो हीत्यादि । भगवता
For Private and Personal Use Only