________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८८
चरक संहिता। । पुरुषविचयशारीरम् तस्य च पुरुषस्य पृथिवी मूर्तिः, आपः क्लदः, तेजोऽभिसन्तापो, वायुः प्राणो, वियच्छिद्राणि, ब्रह्म अन्तरात्मा। ___ यथा खलु ब्राह्मी विभूतिलोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः । ब्रह्मणो विभूतिलोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषे सत्त्वम् । यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यास्तु आदानं, रुद्रो रोषः, सोमः प्रसादो, वसवः सुखम्, अश्विनी कान्तिः, मरुदुत्साहः, विश्वेदेवाः सव्वेन्द्रियाणि सव्वेन्द्रिया
श्चि, तमो मोहो, ज्योतिर्ज्ञानम् । यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं, यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थावियं, यथा कलिरेवमातुय्यं, यथा युगान्तस्तथा मरणम् । इत्येवमेतेनानुमानेनानुक्तानामपि
पड़ धातुकः पुरुष इत्यत आह-तस्य चेत्यादि। या सा पड़ धातुके पुरुषे विश्वरूपेऽन्तरात्मनि पृथिवी तस्या एव विकारभूता पृथिवी, पुरुषेऽस्मिन् मूर्तिः। यास्ता आपस्तासां विकाररूपा आपः, क्लेदः शरीरे। यत्तत्तेजो विश्वरूपे तद्विकारभूतं तेजः, शरीरे सन्तापः। यः स विश्वरूपे वायुस्त द्विकार एप शारीरः प्राणः। यत् तद्विश्वरूपे वियत्तद्विकारभूतवियदेतानि शरीरे छिद्राणि। यत् तद्विश्वरुपेऽव्यक्तमात्मा ब्रह्म तदेवायं शारीरो भूतात्मा विश्वरूप इति।
नन्वेतावता न लोकसम्मितः पुरुषो भवति। लोके हि ब्रह्मादयः सन्ति पुरुषे तु ते के वर्तन्त इत्यत आह-यथा खल्वित्यादि। लोके खलु यथा ब्राह्मी विभूतिराव्यक्तिकी विभूतिस्तथा पुरुषेऽप्यान्तरात्मिकी आव्यक्तिकी विभूतिः। तद् यथा-ब्रह्मणोऽव्यक्तस्य विभूतियथा लोके प्रजापतिर्ब्रह्मादिस्तथान्तरात्मनो विभूतिः पुरुषे सत्त्वं मनः। यस्विन्द्र इत्यादि स्पष्टम् । अथानुक्तार्थमुपसंहरति-इत्येवमित्यादि। एतेनानुमानेनानुक्तानामपि लोकविवरणम्-'भव्यक्तम्' इति । तस्येत्यादिना पुरुषे षड् धातून दर्शयति । मूर्तिः काठिन्यम् । लोके षड़ धातवो व्यक्ता एवेति न विवेचिताः । ब्राझीति आत्मविशेषजगत्स्रष्टुर्विमूतिः। प्रजापतिर्दक्ष
For Private and Personal Use Only