________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८४
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् केवलश्चायमुद्देशो यथोदेशमभिनिर्दिष्टो भवति। गर्भावक्रान्तिसंप्रयुक्तरयार्थस्य विज्ञाने सामर्थ्य गर्भकराणाञ्च भावानामनुसमाधिर्विघातश्च विघातकराणां भावानामिति ॥२०॥
तत्र श्लोकाः। निमित्तमा मा प्रकृतिवृद्धिः कुक्षौ क्रमेण च । वृद्धिहेतुश्च गर्भस्य पञ्चाः शुभसंज्ञिताः ॥ अजन्मनि च यो हेतुर्विनाशे विकृतावपि । इमांस्त्रीनशुभान् भावानाहुगर्भविघातकान् ॥ २१ ॥ शुभःशुभसमाख्यातानष्टौ भावानिमान् भिषक् ।
सर्वथा वेद यः सर्वान् स राज्ञः कर्तुमर्हति ॥ दिभिः पड़ भिः श्लोकैरुपसंहारः। तत्र गर्भावक्रान्तीति। गर्भावक्रान्तिशारीरद्वयस्य खड्डीकामहदाख्यस्य सम्प्रयुक्तस्य वाच्यस्यार्थस्य ज्ञाने सामथ्येमभिनिर्दिष्टं भवति। गर्भकराणां भावानामनुसमाधिः संग्रहः स चाभिनिद्दिष्टो भवति। विघातकराणां गर्भोपघातकराणां विघातोऽभिनिर्दिष्टो भवति ॥१९॥२०॥
गङ्गाधरः-अध्यायार्थोपसंहारार्थमाह-तत्र श्लोका इति। निमित्तं गर्भस्य। आत्मा गर्भस्य स्वरूपम्। प्रकृतिर्गर्भस्य। यया चानुपूर्ध्या गर्भस्य कुक्षौ द्धिः। वृद्धिहेतुश्चेति। शुभसंशिताः पश्चार्थाः। अजम्मनि हेतुः । गर्भस्य विनाशे हेतुर्गर्भस्य विकृतौ च हेतुरितीमांस्त्रीनशुमान् भावान् ॥ २१ ॥ गङ्गाधरः इत्थश्चाष्टौ शुभाशुभसमाख्यातान् भावान् यो भिषक् सव्वेथा
सत्त्वभेदाः प्रायेण भवन्ति मानुषेष्विति कृत्वा एत एवोदाहरणार्थमुक्ताः। एवमनुक्ता अपि शूकर • प्याघ्रादिसत्त्वानुकारेण सत्वभेदा बोद्धव्या एवेति दर्शयन्नाह-कथमित्यादि। कथं नाम यथासत्त्वं प्राणिमनोभिर्मनुष्याणामुपचारः स्यादित्येतदर्थमुदाहरणरूपा अमी सत्त्वभेदा व्याख्याता इति वाक्यार्थः। यथाप्रतिज्ञं वाक्यार्थमुपसंहरति-केवल इत्यादि। केवलः कृत्स्नः । उद्देश इति 'यत्र गर्भे' इत्यादिग्रन्थकृतः । यथोद्देशमिति उद्देशकमानतिक्रमेण। सामर्थमिति प्रयोजनम् । अनुसमाधिरनुष्ठानम्। विघातो वर्जनम्। विघातकराणामिति गर्भविघातकराणाम् ॥ २०॥
For Private and Personal Use Only