________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः
शारीरस्थानम्।
१९८३ निराकरिष्णुमधमवेशं जुगुप्सिताचाराहारविहारमैथुनपरं स्वप्नशीलं पाशवं विद्यात् । भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् । अलसं केवलमभिनिविष्टमाहारे सर्वबुद्धागहीनं वानस्पत्यं विद्यात् । इत्येवं खलु तामसस्य सत्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात् । इत्यपरिसंख्येयभेदानां खलु त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यातः ॥ १६॥
शुद्धस्य सत्त्वस्य सतविधो ब्रह्मर्षिशक्रवरुणयमकुबेरगन्धव्वसत्त्वानुकारेण । राजसस्य षड्विधो दैत्यराक्षसपिशाचसर्पप्रतिशकुनिसत्त्वानुकारेण। तामसस्य त्रिविधः पशुमत्स्यवनस्पति-सत्त्वानुकारेण। कथञ्च यथासत्त्वमुपचारः स्यादिति ।
गङ्गाधरः--अथ तामसानाह-निराकरिष्णुमित्यादि। सर्वनिराकरणशीलम् । पाशवं पशुसत्त्वं विद्यात् । एतेन पशुकायो व्याख्यातः। सुश्रुते च । "पड़ेते राजसाः कायास्तामसांस्तु निबोध मे। दुर्मेधस्वं मन्दता च स्वप्ने मैथुन नित्यता। निराकरिष्णुता चैव विज्ञ याः पाशवा गुणाः ॥” इति ।
भीरुमित्यादि। सरणशीलं गमनस्वभावम् । मात्स्यं मत्स्यसत्त्वम् । एतेन मात्स्यकायो व्याख्यातः। सुश्रुते च। "अनवस्थितता मौख्यं भीरुख सलिला. थिता। परस्परा भिमद्देश्व मत्स्यसत्त्वस्य लक्षणम् ॥” इति।
अलसमित्यादि। वानस्पत्यं वनस्पतिसत्त्वं नरम्। एतेन वनस्पतिकायश्च व्याख्यातः। सुश्रते च । “एकस्थानरतिनित्यमाहारे केवले रतः । वानसत्यो नरः सत्त्वयम्मकामार्थवर्जितः॥” इति । इत्येवमित्यादुरपसंहारे। मोहशिखात् तमोऽशवादिति । इत्यपरिसङ्घप्रयेत्यादि। इत्यपरिसङ्घयेत्यागोचरशब्देन अचिरभाविविषये प्रचारो लक्ष्यते, तेन सन्त्रस्तगोचरमिति त्रस्तविषयप्रचारम् । पिशाचा भिन्न एवं यथोक्ताचारः प्रेतः। तेन प्रैतमपि सत्त्वं पृथगुक्तम्। सरणशीक्षमिति गमनशीलम् । बुयादीनि ऊहापोहविचारस्मत्यादीनि उक्तानि ॥ १८॥१९॥
चक्रपाणिः-सुखस्मरणार्थ शुद्धादिभेदेन बन्धीकृत्य सत्त्वभेदानाह-शुद्धस्येत्यादि। वनस्पति. सत्त्वानुकारेणेत्यन्तो ग्रन्थो भेटैकदेशो व्याख्यात इत्यन्ते योजनीयः क्रियान्तराभावात्। एते च
For Private and Personal Use Only