SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८२ चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् शुचिद्व षिणं भीरु भीषयितारं विहारशीलं पशाचं विद्यात् । क्रुद्धशूरमकुद्धभीरु तीक्ष्णमायासबहुलं मन्त्रसुगोचरम् ॐ आहारविहारपरं साईं विद्यात्। आहारकाममतिदुःखशीलाचारोपचारमसूयकमसंविभागिनमतिलोलुपकर्मशीलं प्रेतं विद्यात् । अनुषक्तकाममजस्रमाहार-विहार-परमनवस्थितममर्षिणमसञ्चयं शाकुन विद्यात्। इत्येवं खलु राजसस्य सत्त्वस्य षड़ विधं भेदांशं विद्याद रोषांशत्वात् ॥ १८ ॥ स्त्रैणं स्त्रीवशं स्त्रीषु रहसि स्थितिकामं भीरुश्च भीषयितारञ्च पैशाचं पिशाचसत्त्वं नरं विद्यादिति। एतेन पिशाचकायो व्याख्यातः। सुश्रुते च। "उच्छिष्टाहारता तैक्ष्णं साहसप्रियता तथा। स्त्रीलोलुपखं नैर्लज्ज्यं पैशाचं कायलक्षणम् ॥” इति । एतेन पैशाचसत्त्वश्च व्याख्यातः । द्रशूरमित्यादि। यदा क्रुद्धः स्यात् तदा शूरः स्यादिति क्रूद्धशूरस्तम्। अक्रद्धभीरुम् यदा न क्रुद्धस्तदा भीरुरित्यक्रुद्धभीरुस्तम्। मन्त्रसुगोचरम् यकिश्चित् कोऽपि मन्त्रयते तन्मन्त्रं सुष्टुगोचरं ज्ञान विषयीभवतीति मन्त्रसुगोचरस्तम् । सार्प सर्पसत्त्वं नरं विद्यादिति । एतेन सापकायो व्याख्यातः। सुश्रुते हि --"तीक्ष्णमायासिनं भीरु चण्डं मायान्वितं तथा। विहाराचारचपलं सर्पसत्त्वं विदुरम् ॥” इति । ___ आहारकाममित्यादि। अतिदुःखाः शीलाचारोपचारा यस्य तम्। असं विभागिनं कार्याकार्यविभागज्ञानहीनम् । प्रेतं प्रेतसत्त्वं नरं विद्यादिति । एतेन प्रेतकायो व्याख्यातः। सुश्रुते चोक्तः। “असंविभागमलसं दुःखशीलमसूयकम् । लोलुपश्चाप्यदातारं प्रेतसत्त्वं विदुरम् ॥” इति। अनुपक्तकाममित्यादि । अनुषक्तः सदा संसक्तः कामो यस्य तम्। अजस्र यथा स्यात् तथा आहारविहारेषु परं रतम् । शाकुनै पक्षिसत्त्वं नरं विद्यात् । एतेन शाकुनकायो व्याख्यातः। सुश्रुतेऽपि । “प्रद्धकामसेवी चाप्यजसाहार एव च । अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम् ॥” इति। एतेन शाकुनसत्त्वो व्याख्यातः। इत्येवं राजसस्य सत्त्वस्य रोषांशखात् षड़ विधं भेदांशं विद्यात्॥१८ स्थातुमिच्छतीति स्त्रीरहस्कामः । क्रुद्धशूरमक्रुद्धभीरुमिति क्रोधे सति शूरम् . अक्रोधे सति भीरुम् । * सन्त्रस्तगोचरमिति चक्रवृतः पाठः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy