________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः शारीरस्थानम् ।
१९८१ विद्यात् कल्याणांशत्वात्। तत्संयोगात् तु ब्राह्मामत्यन्तशुद्धं व्यवस्येत् ॥ १७॥ - शूरं चण्डमसूयकमैश्वर्य्यवन्तमौदरिकं छ रौद्रमननुक्रोशकमात्मपूजकमासुरं विद्यात्। अमर्षिणमनुबन्धकोपं छिद्रप्रहारिणं ऋरमाहारातिमात्ररुचिमामिषप्रियतमं स्वप्नायासबहुलमीयं राक्षसं विद्यात्। महालसं स्त्रणं स्त्रीरहस्काममचिं
सत्त्व नरं विद्यात्। एतेन गान्धर्वकायो व्याख्यातः।सुश्रुते हुयक्तम् --"गन्धमाल्यप्रियवञ्च नृत्यवादित्रकामिता। विहारशीलता चैव गान्धर्व कायलक्षणम् ॥" इति । एतेन गन्धर्वसत्त्वो व्याख्यातः । इत्येवमित्यादिना शुद्धसत्त्वस्य सप्तविध भेदांशं विद्यात् । तत्र ब्राह्मा सत्त्वमत्यन्तं शुद्धं विद्यात् कल्याणांशखात् ॥१७
गङ्गाधरः-अथ राजससत्त्वानाह-सुश्रुते च। सप्तैते सात्त्विकाः कायाः राजसांस्तु निबोध मे इति। शूरमित्यादि। चण्डं कोपस्वभावम्। औदरिकं बहाशिनम् । रौद्रमुग्रम्। अननुक्रोशं निद्दयम्। आत्मपूजकं निजस्याहारादिभिरुपचारै जनशीलम्। आसुरमासुरसत्त्वं विद्यादिति । एतेनासुरकायः पुरुषो व्याख्यातः। सुश्रुते चोक्तम् । “ऐश्वय्येवन्तं रौद्रश्च शूरं चण्डमसूयकम् । एकाशिनञ्चौदरिकमासुरं सत्त्वमीदृशम्॥” इति। अमर्षिणमित्यादि। अनुबन्धकोपं यं प्रति कुप्यति कोपनिवृत्तेऽपि कोपानुबन्धो यस्य तं प्रति वर्तते तमनुबन्धकोपम्। छिद्रप्रहारिणं यदा तस्य कार्येषु विवरं प्राप्नोति तदैव तं प्रहरति । राक्षसं राक्षससत्त्वं तं नरं विद्यादिति। एतेन राक्षसकायोऽपि व्याख्यातः । सुश्रुते च । “एकान्तग्राहिता रौद्रमसूया धर्मवाह्यता । भृशमात्रं तमश्चापि राक्षसं कायलक्षणम् ॥” इति। एतेन राक्षससत्त्वो व्याख्यातः। महालसमित्यादि।
गान्धर्वसत्वम्। एवं ब्राह्ममित्यादावपि ज्ञेयम् । एवञ्च ब्राह्मादिभिः सत्त्ववाचकैः परेव प्रत्यवमृष्टैः सत्त्वस्य सप्तविधभेदकथनं समानकारणादुपपन्नं भवति । शुद्धस्येति सत्वगुणबहुलस्य । अथ कथमेते ब्राह्मादयः शुद्धसत्त्वस्यैव भेदा इत्याह-कल्याणांशत्वादिति। तत्संयोगादिति कल्याणांशस्य सम्यग्योगात् ॥ १७ ॥ ___ चक्रपाणिः-औपधिकमिति च्छमानुचारिणम् । अननुक्रोशमित्यननुनेयम् । स्त्रिया समं रहसि
* औदरिकमित्यत्र औपधिकमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only