________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८०
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् प्राप्तकारिणमसंहार्यमुत्थानवन्तं स्मृतिमन्तमश्वर्यालम्बिनं ६ व्यपगतरागेाद्वषमोहं याम्यं विद्यात् । शूरं धीरं शुचिमशुचिद्वोषिणं यज्वानमम्भोविहाररतिमलिष्टकर्माणं स्थानकोपप्रसाद वारुणं विद्यात् । स्थानमानोपभोगं परिवारसम्पन्नं सुखविहारं धर्मार्थकामनित्यं शुचिं व्यक्तकोपप्रसाद कौबेरं विद्यात्। प्रियनृत्यगीतवादित्रोल्लापकं श्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयक गान्धर्व विद्यात्। इत्येवं शुद्धसत्त्वस्य सप्तविधं भेदांशं असंहाय॑मसञ्चयिनम्। उत्थानवन्तं सम्यक् समर्थम् । याम्यं यमसत्त्वं नरं विद्यादिति । एतेन याम्यकायो व्याख्यातः । सुश्रुते च। “प्राप्तकारी दृढ़ोत्थानो निभयः स्मृतिमान् शुचिः। रागमोहभयद्वेषैवज्जितो याम्यसत्त्ववान् ॥” इति । . शूरमित्यादि। अम्भोविहाररतिं जलविहारे रतिर्यस्थ तम्। अक्लिष्टकर्माणं पूर्व व्याख्यातम् । स्थानकोपप्रसादं यत्र कोपः कर्त्तव्यो यत्र च प्रसादः कत्तव्यस्तत्र तत्र स्थाने कोपप्रसादौ यस्य तम्। वारुणं वरुणसत्त्वं विद्यादिति। एतेन वरुणकायश्च व्याख्यातः। सुश्रुतेऽप्युक्तः। “शीतसेवा सहिष्णुवं पैङ्गल्यं हरिकेशता। प्रियवादिखमित्येतद् वारुणं कायलक्षणम् ॥" इति। एतेन वरुणसत्त्वो व्याख्यातः। __ स्थानमानेत्यादि। यत्र मानः कर्त्तव्यो यत्र चोपभोगः कर्त्तव्यस्तत्र तत्र मानोपभोगो यस्य तम्। व्यक्तकोपप्रसादं न तु गृहकोपप्रसादम् । कौबेरं कुबेरसत्त्वं नरं विद्यादिति। एतेन कौबेरकायः पुरुषो व्याख्यातः । सुश्रुते हुयक्तम् । “मध्यस्थता सहिष्णुखमर्थस्यागमसञ्चयो। महाप्रसचशक्तिलं कौवेरं कायलक्षणम् ॥”। इति। एतेन कौबेरसत्त्वश्च व्याख्यातः। . प्रियनृत्येत्यादि। प्रिया नृत्यगीतवादित्रोल्लापा यस्य तम् । श्लोकादिषु कुशलं दक्षम्। गन्धादिषु विहारकामो नित्यं यस्य तम् । गान्धव्वं गन्धर्वतम्, अलवित्तकर्तव्याकर्त्तव्यमित्यर्थः। असम्प्रहार्यमित्यशक्यवारणम् । ऐश्वर्यं लभत इति ऐश्वर्यलम्भी। स्थाने उचिते कोपः प्रसादश्च यस्य स स्थानकोपप्रसादः। सुखविहारमिति सुखक्रीडम् । उलापः स्तोत्रम्। विहारः क्रीड़ा, किंवा स्त्रीभिः समं विहरणं स्त्रीविहारः। गान्धर्वमिति
* ऐश्वर्यलम्भिनम् इति चक्रः ।
For Private and Personal Use Only