________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थ अध्यायः ] शारीरस्थानम् ।
१९७६ तद्यथा-शुचिंसत्याभिसन्धिंजितात्मानं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नं स्मृतिमन्तं कामक्रोधलोभमोहेाहर्षापेतं समं सर्वभूतेषु ब्राह्मा विद्यात् । इज्याध्ययनव्रतब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषलोभमोह-रोषं प्रतिभावचनविज्ञानोपधारणशक्तिसम्पन्नमार्ष विद्यात् । ऐश्वर्यावन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमलिष्टकार्माणं दीर्घदर्शिनमर्थधर्मकामाभिरतमन्द्र विद्यात्। लेखास्थवृत्तं
गङ्गाधरः-तद् यथेति। प्राधान्यादुत्कर्षाच्च प्रथमं शुद्धसत्त्वभेदानाहशुचिमित्यादि। अभिसन्धिरनुसन्धानम्। संविभागिनं यत् कार्य यदकार्य तद्विभागकरणबुद्धिशीलम्। कामाद्यपेतम्। सर्वभूतेष सममिति ब्राह्मा ब्रह्मसत्त्वं विद्यात् । एतेन ब्राह्मा शरीरश्च व्याख्यातम् । यो हि ब्राह्मासत्त्वः स एव ब्राह्माकायः । उक्तं हि सुश्रुते । “शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् । प्रियतातिथ्यमिज्या च ब्रह्मकायस्य लक्षणम्" इति। एतेन ब्राह्मासत्त्वं व्याख्यातं परस्परानु विधानात् ।
इज्येतादि। इज्या यजनम्। उपशान्ता मदादयो यस्य तं प्रतिभादिसम्पनम्। तत्र प्रतिभा श्रुतमात्रबोधः। आप सत्त्वं विद्यात्। एतेनार्षकायो व्याख्यातः। तथा च सुश्रुतः। “जपत्रतब्रह्मचर्य-होमाध्ययनसेविनम् । ज्ञानविज्ञानसम्पन्नमृषिसत्त्वं नरं विदुः ॥”
ऐश्वय्येवन्तमित्यादि। आदेयवाक्यं ग्राह्य वाक्यवादिनम् । शूरं विक्रमवन्तम्। ओजस्विनं बलवन्तम् । तेजसोपेतं दीप्तिमन्तम् । अक्लिष्टकर्माणम् अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशास्तैर्वर्जितं कर्म यस्य तं तथा । ऐन्द्रमिन्द्रसत्वं नरं विद्यादिति । एतेन चैन्द्रकायः पुरुषो व्याख्यातः । सुश्रुते चोक्तः। “माहात्म्यं शौर्यमाशा च सततं शास्त्रबुद्धिता। भृत्यानां भरणश्चापि माहेन्द्र कायलक्षणम् ॥” इति । एतेन माहेन्द्रसत्त्वो व्याख्यातः ।
लेखास्थवृत्तमित्यादि। लेखास्थवृत्तं कर्तव्याकर्तव्यव्यवस्थावृत्तम्। चक्रपाणिः-संविभागिनमिति सम्पत्फलविभजनशीलम् । अतिथौ यथोचितसपर्यादिकयुक्तं व्रतमाचरतीति अतिथिवतः। लेखा कर्तव्याकर्त्तव्यमर्यादा, तत्र स्थितं वृत्तं यस्य स लेखास्थवृत्तः
For Private and Personal Use Only